________________
त्रिषष्टिशलाकापुरुषचरिते २२७॥
अनुभोक्ष्ये स्वकर्माणि मन्दभाग्या वनेऽप्यहम् । नाऽनुरूपं त्वकार्षीस्त्वं विवेकस्य कुलस्य च ।। ३२२ ।। यथा खलगिराऽत्याक्षीः स्वामिन्नेकपदेऽपि माम् । तथा मिथ्यादृशां वाचा मा धर्म जिनभाषितम् ।।३२३ ।। इत्युक्त्वा मूर्च्छिता भूमौ पतितोत्थाय चाऽभ्यधात् । मया विना कथं रामो जीविष्यति ? हृताऽस्मि हा ! ॥३२४ ।। रामाय स्वस्त्यथाऽऽशंशेराशिर्ष लक्ष्मणस्य च । शिवास्ते सन्तु पन्थानो वत्स ! गच्छोपराघवम् ।। ३२५ ॥
एवंविधेऽपि दयिते विपरीतवृत्तौ यैवंविधा तदियमेव सतीषु धुर्या । सञ्चिन्तयन्निति भृशं प्रणिपत्य मुक्त्वा सीतां कृतान्तवदनो ववले कथञ्चित् ।। ३२६ ।।
सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् ।
रामकृतसीतात्यागः ।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
सप्तमपर्वणि सीतापरित्यागो
नामाऽष्टमः सर्गः।
।। २२७ ॥