________________
सप्तमं पर्व
त्रिषष्टिशलाकापुरुषचरिते २२६॥
अष्टमः सर्गः रामलक्ष्मणरावणचरितम् ।
दुनिमित्तेष्वशकुनेष्वपि सीता रथस्थिता । जगाम दूरमध्वानमार्जवादविशङ्किता ।। ३०८ ॥ गङ्गासागरमुत्तीर्याऽरण्ये सिंहनिनादके । गत्वा कृतान्तवदनस्तस्थौ किञ्चिद्विचिन्तयन् ।।३०९ ।। सादु म्लानमुखं तं च प्रेक्ष्य सीताऽब्रवीदिति । कथमित्थं स्थितोऽसि त्वं सशोक इव दुर्मनाः ? ||३१० ।। कृतान्तः कथमप्यूचे दुर्वचं बच्यहं कथम् ? । दुष्करं कृतवांश्चैतत् प्रेष्यभावेन दूषितः ।।३११ ॥ राक्षसावाससंवासापवादाल्लोकजन्मनः । भीतेन देवि ! रामेण त्याजिताऽसि वनेऽनघे! ॥ ३१२ ।। अपवादे चराख्याते रामं त्वत्त्यजनोद्यतम् ।न्यषेधीलक्ष्मणो लोकं प्रति क्रोधारुणेक्षणः ।।३१३ ।। सिद्धाज्ञया निषिद्धश्च रामेण स रुदन् ययौ । अहं च प्रेषितोऽमुष्मिन् कार्ये पापोऽस्मि देवि! हा! ।।३१४ ।।
अमुष्मिँछ्वापदाकीर्णे मृत्योरेकनिकेतने । जीविष्यसि मया त्यक्ता स्वप्रभावेण केवलम् ।। ३१५ ।। तच्छ्रुत्वा स्यन्दनात् सीता मूर्छिता न्यपतद्भुवि । मृतेति बुद्ध्या सेनानीः पापम्मन्यो रुरोद सः ।। ३१६ ।। सीताऽपि वनवातेन कथञ्चित् प्राप चेतनाम् । भूयो भूयोऽप्यमूर्छच्च चेतनामाससाद च ।। ३१७ ॥ महत्यामथ वेलायां सुस्थीभूयेत्युवाच सा । इतोऽयोध्या कियहरे ? रामस्तिष्ठति कुत्र वा ? ।। ३१८ ।। सेनानीरभ्यधाद् दूरेऽयोध्या किं पृच्छयाऽनया ? | उग्राज्ञस्य च रामस्य पर्याप्तं देवि ! वार्तया ।।३१९ ।। इति श्रुत्वाऽपि सा रामभक्ता भूयोऽप्यभाषत । भद्र ! मद्वाचिकमिदं शंसे रामस्य सर्वथा ।। ३२० ।। यदि निर्वादभीतस्त्वं परीक्षां नाऽकृथाः कथम् ? शङ्कास्थाने हि सर्वोऽपि दिव्यादि लभते जनः ।।३२१ ॥ १ सिंहानां निनादो यस्मिंस्तस्मिन् । २ किङ्करत्वेन । ३ प्रश्नेन । ४ मत्सन्देशम् । ५ पञ्चदिव्यानां मध्ये किमपि दिव्यं करोति येन सत्यासत्ये परीक्ष्येते इति भावः ।
रामकृतसीतात्यागः ।
PRASHASHASHRAM
।। २२६ ॥