________________
त्रिषष्टिशलाकापुरुषचरिते २२५॥
सप्तमं पर्व
अष्टमः |सर्गः रामलक्ष्मणरावणचरितम् ।
इत्यादिसीतानिर्वादं शृण्वनामो गृहे ययौ । भूयोऽपि तच्छ्रवणार्थमादिदेश चरान् वरान् ।। २९३ ।। एवं च दध्यौ काकुत्स्थो मया यस्याः कृते कृतः । रक्षःकुलक्षयो रौद्रस्तस्याः किमिदमागतम् ? ।। २९४ ॥ जाने महासती सीता स्त्रीलोलः स च रावणः । कुलं च मे निष्कलङ्क हा रामः किं करोत्वसौ ? ॥ २९५ ।। द्राक् चरास्ते बहिः श्रुत्वा सीतानिर्वादमब्रुवन् । रामस्य सानुजकपिरक्षोराजस्य सुस्फुटम् ।। २९६ ॥ क्रुद्धोऽथ लक्ष्मणोऽवोचद्दोषान् सङ्कल्प्य हेतुभिः । ये निन्दन्ति सती सीतां तेषामेषोऽन्तकोऽस्म्यहम् ।।२९७ ।। रामोऽप्यूचे मम पुरा व्यज्ञपीदं महत्तरैः । स्वयं च शुश्रुवे तस्य संवादोऽयं चरैः कृतः ।। २९८ ।। श्रुत्वा चाऽमी समायाताः प्रत्यक्षंचाऽपि भाषिताः । सीतात्यागे माऽपवादीत् सीतास्वीकारवज्जनः ।।२९९ ॥ ऊचे च लक्ष्मणो लोकगिरा सीतां स्म मा त्यज । यथा तथाऽपवदिता यदबद्धमुखो जनः ।। ३०० ।। लोकः सौराज्यसुस्थोऽपि राजदोषपरो भवेत् । शिक्षणीयो न चेत्तत्रोपेक्षणीयः स भूभुजाम् ।। ३०१ ।। रामोऽप्यूचे सत्यमेतदीदृग् लोकः सदाऽपि हि । सर्वलोकविरुद्धं तु त्याज्यमेव यशस्विनः ।। ३०२ ।। इत्युक्त्वोवाच सेनान्यं कृतान्तवदनं बलः । अरण्ये त्यज्यतां क्वाऽपि सीतेयं गर्भवत्यपि ।। ३०३ ।। पतित्वा रामपादेषु बभाषे लक्ष्मणो रुदन् । सीतादेव्या महासत्यास्त्यागोऽयमुचितो न हि ।। ३०४ ।। नाऽतः परं त्वया वाच्यमिति रामेण भाषिते । नीरङ्गीच्छन्नवक्त्रोऽगात् सौमित्रिः स्वगृहं रुदन् ।। ३०५ ॥ कृतान्तवदनं रामोऽन्वशात् सीतां वने नय । सम्मेतयात्राव्याजेन तस्याः खल्वेष दोहदः ।। ३०६ ।। सेनानीरपि सम्मेतयात्रायै रामशासनम् । आख्याय सीतामारोप्य स्यन्दने प्राचलद् द्रुतम् ।। ३०७ ॥ १ यथा सीतास्वीकारे जनोऽपवदति तथा सीतात्यागे माऽपवदत्वतः सीतात्यागः कर्तव्य इतिभावः ।
रामकृतसीतात्यागः ।
॥२२५ ।।