________________
त्रिषष्टिशलाकापुरुषचरिते IR२४॥
सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् ।
नत्वा रामाग्रतस्तस्थुः कम्पमाना द्रुपत्रवत् । न तु विज्ञपयामासू राजतेजो हि दुस्सहम् ।। २७८ ॥ तानूचे रामभद्रोऽपि भो भोः ! पुरमहत्तराः ! । अभयं वो ब्रुवाणानामेकान्तहितवादिनाम् ।। २७९ ॥ । तेष्वाद्यः सर्वसंवित्त्या विजयाख्यो महत्तरः । इति विज्ञपयामास सावष्टम्भः प्रभोगिरा ।। २८० ।। स्वामिन्नवश्यविज्ञप्यं यदि विज्ञप्यते न हि । वञ्चितः स्यात्तदा स्वामी विज्ञप्तं चाऽतिदुःश्रवम् ।। २८१ ॥ देव ! देव्यां प्रवादोऽस्ति घटते दुर्घटोऽपि हि ।युक्त्या हि यद् घटामेति श्रद्धेयं तन्मनीषिणा ।। २८२ ।। तथाहि जानकी हत्वा रावणेन रिरंसुना । एकैव निन्ये तद्वेश्मन्यवात्सीच्च चिरं प्रभो! ॥२८३ ॥ सीता रक्ता विरक्ता वा संवित्त्या वा प्रसह्य वा । स्त्रीलोलेन दशास्येन नूनं स्याद्भोगदूषिता ।। २८४ ।। लोकोऽपि प्रवदत्येवं प्रवदामो वयं तथा । युक्तियुक्तं प्रवादं तन्मा सहस्व रघूद्वह ! ।।२८५ ।। आजन्मोपार्जितां कीर्ति निजं कुलमिवाऽमलाम् । प्रवादसहनेन त्वं मा देव ! मलिनीकृथाः ।। २८६ ।। कलङ्कस्याऽतिथीभूतां सीतां निश्चित्य राघवः । सद्योऽभूद् दुःखतूष्णीकः प्रायः प्रेमाऽतिदुस्त्यजम् ।।२८७ ॥ धैर्यमालम्ब्य काकुत्स्थस्तानुवाच महत्तरान् । साधु व्यज्ञपि युष्माभिर्न भक्ताः क्वाऽप्युपेक्षकाः ।। २८८ ॥ न स्त्रीमात्रकृते जातु सहिष्येऽहमिहाऽयशः । इति पद्मः प्रतिज्ञाय विससर्ज महत्तरान् ।। २८९ ।। निशायामथ काकुत्स्थः प्रच्छन्नः सदनाद् बहिः । निरगादिति चाऽौषीज्जनवादं पदे पदे ।। २९० ।। रावणेनाऽपनीतेयं तद्गृहे च चिरं स्थिता । सीताऽऽनीता च रामेण सतीति च स मन्यते ।। २९१ ॥ सीतारक्तेन तेनेयं नोपभुक्ता कथं भवेत् ? । नाऽदोऽपि व्यमृशद्रामो न रक्तो दोषमीक्षते ।। २९२ ॥ १ वृक्षपर्णवत् । २ संवित्तिर्बुद्विः । ३ बलात्कारेण । ४ अद एतद् ।
3555555
सीतायाः शीलकलङ्कप्राप्तिः।
||२२४ ।।