________________
त्रिषष्टिशलाका
पुरुषचरिते
॥२२३॥
सीतादोषपदं तच्च देव्यो दासीजनैर्निजैः । जने प्राकाशयन् प्रायः प्रवादा लोकनिर्मिताः ।। २६४ ।। वसन्तेऽथाऽब्रवीद्रामः सीते ! त्वां गर्भखेदिताम् । विनोदयितुकामेव मधुलक्ष्मीरिहाऽऽययौ ।। २६५ ।। पुष्पन्ति बकुलप्राया वृक्षाः स्त्रीदत्तदोहदैः । रन्तुं व्रजामो महेन्द्रोदयोद्यानं ततोऽधुना ॥ २६६ ॥ सीताऽप्यूचे दोहदो मे देवतार्चनलक्षणः । तं पूरयोद्यानभवैर्नानापुष्पैः सुगन्धिभिः ।। २६७ ॥ रामः सद्योऽपि देवानां पूजाचर्यामकारयत् । ययौ महेन्द्रोदये च ससीतः सपरिच्छदः ।। २६८ ।। विचित्रनगरक्रीडं तत्राऽपश्यन्मधूत्सवम् । अर्हत्पूजोत्सवमयं सुखासीनो रघूद्वहः ।। २६९ ।। अत्राऽन्तरे च सीताया दक्षिणं चक्षुरस्फुरत् । आचचक्षे च सद्योऽपि साशङ्का राघवाय सा ।। २७० ।। दं साध्विति रामेणाSSख्याते सीताऽब्रवीदिति । किं रक्षोद्वीपवासान्मे सन्तुष्धेऽद्याऽपि नो विधि: ? ।। २७१ ।। त्वद्वियोगभवाद् दुःखाद् दुःखमद्याऽपि मेऽधिकम् । किमसौ दास्यति विधिर्निमित्तं नैतदन्यथा ॥ २७२ ॥ रामोऽपि तामुवाचैवं देवि ! मा खेदमुद्वह । अवश्यमेव भोक्तव्ये कर्माधीने सुखासुखे ।। २७३ ॥ तद्गच्छ मन्दिरे स्वस्मिन् देवानामर्चनं कुरु । प्रयच्छ दानं पात्रेभ्यो धर्मः शरणमापदि ।। २७४ ।। सीताऽपि सदनं गत्वा संयमेन महीयसा । अर्हतोऽपूजयद्दानं प्रददे चाऽवदानवत् ।। २७५ ।। रघुनाथमथाऽऽजग्मू रौजधानीमहत्तराः । यथाभूतपुरीवृत्तकीर्तनैकाधिकारिणः ।। २७६ ॥ विजयः सूरदेवश्च मधुमानथ पिङ्गलः । शूलधरः काश्यपश्च कालः क्षेमश्च नामतः ।। २७७ ।।
१ प्रायेणाऽपवादा लोकैरेव निर्मिता भवन्ति, न तु तद्वास्तविकाः । २ पूजाचरणम् । ३ राजधान्या महत्तरा ग्रामकूटा ग्रामण्य इति यावत् । ४ यथाभूतं सत्यं यत्पुरीवृत्तान्तं तस्य कीर्तनेऽद्वितीयाधिकारिणः ।
Tubi
सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावण
चरितम् ।
सीतायाः शीलकलङ्क प्राप्तिः ।
॥ २२३ ॥