________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥२३१ ।।
नाऽपि पृष्टा वैदेही सुतजन्मावधि स्वकम् । मूलाद्वृत्तान्तमाचख्यौ तस्य भ्रातुरिवाऽग्रतः ।। ४२ ।। ऊचेऽङ्गनिमित्तज्ञः सिद्धार्थः करुणानिधिः । किं ताम्यसि मुधा ? यस्यास्तनयौ लवणाङ्कुशौ ।। ४३ ।। प्रशस्तलक्षणौ साक्षादिव तौ रामलक्ष्मणौ । मनोरथं तव सुतौ नचिरात् पुरयिष्यतः ।। ४४ ।। तेनेत्याश्वासिता सीता तमभ्यर्थ्य कृताग्रहा । स्वगृहे धारयामास पुत्राध्यापनहेतवे ।। ४५ ।। स भव्याविति तत्पुत्रौ सर्वा अग्राहयत् कलाः । तथा यथा तावभूतां दुर्जयौ घुसदामपि ॥ ४६ ॥ तावधीताखिलकलौ प्रपेदाते च यौवनम् । नूतनाविव कन्दर्पवसन्तौ सहचारिणौ ।। ४७ ।। वज्रजङ्घः शशिचूलां पुत्रीं लक्ष्मीवतीभवाम् । कन्या द्वात्रिंशतं चाऽन्या लवणेनोदवाहयत् ॥ ४८ ॥ सोशाय याचे तु पृथ्वीपुरपतेः पृथोः । कन्यकाममृतवतीजातां कनकमालिकाम् ।। ४९ ।। वंशो न ज्ञायते यस्य तस्मै स्वदुहिता कथम् । दीयतामित्यभाषिष्ट पृथुः पृथुपराक्रमः ।। ५० ।। वज्रजवस्तदाकर्ण्य तं क्रोधादभ्यषेणयत् । पृथुगृह्यं व्याघ्ररथं युद्धे बद्ध्वाऽग्रहीन्नृपम् ।। ५१ ।। स्वमित्रं पोतनपतिं साहाय्यायाऽह्वयत्पृथुः । विधुरेषु हि मित्राणि स्मरणीयानि मन्त्रवत् ।। ५२ ।। वज्रजङ्घेोऽपि पुत्रान् स्वान्नरैरानाययद्युधि । तैर्वार्यमाणावपि तौ चेयतुर्लवणाङ्कुशौ ।। ५३ ।। अन्येद्युर्ववृते युद्धं चम्वोर्मिलितयोर्द्वयोः । परैरतिबलैर्वज्रजङ्घसैन्यं त्वभज्यत ॥ ५४ ॥ सङ्क्रुद्धौ मातुलचमूभङ्गेन लवणाङ्कुशौ । निरङ्कुशाविव गजौ प्रणिघ्नन्तावधावताम् ।। ५५ ।। तयोरोजस्विनो रंहो मनागपि न सेहिरे । द्विषन्तः प्रावृडुत्पूरश्रोतसोरङ्घ्रिपा इव ।। ५६ ।। अभज्यत ससैन्योऽपि पृथुर्यावन्नरेश्वरः । ऊचतुस्तावदेवं तौ स्मेरास्यौ रामनन्दनौ ।। ५७ ।।
सप्तमं पर्व
नवमः
सर्ग.
रामलक्ष्मणरावण
चरितम् ।
लवणाङ्कुशयोर्विवाहः ।
।। २३१ ॥