________________
त्रिषष्टिशलाकापुरुषचरित २३२॥
का
सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् ।
अपरिज्ञातवंशाभ्यामप्यावाभ्यामिहाऽऽहवे । विज्ञातवंशजा यूयं पलायध्वे कथं त्वहो ? ॥ ५८ ॥ इति तद्वचनं श्रुत्वा वलित्वा पृथुरब्रवीत् । व्यज्ञायि वंशो युष्माकं विक्रमेणाऽमुना मया ।। ५९ ।। अङ्कुशायाऽर्थिता कन्या वज्रजचेन भूभुजा । नूनं मम हितेनैव वरो हीदृक् क्व लभ्यते ? ॥६० ॥ इति सानुनयं प्रोच्य सोऽङ्कुशाय तदैव हि । कन्यां कनकमालाख्यां प्रददौ पूर्वयाचिताम् ।।६१ ।। सन्धानं वज्रजचेन समक्षं सर्वभूभुजाम् । चक्रे पृथुनृपः पुत्र्याः स्पृहयन्नडशं वरम् ।। ६२ ॥ तत्राऽस्थाच्छिबिरं न्यस्य वज्रजङ्घनरेश्वरः । आगाच्च नारदमुनिः सच्चक्रे तेन चोच्चकैः ।। ६३ ।। वज्रजो निषण्णेषु राजसूवाच नारदम् । अङ्कुशाय पृथुर्दास्यत्यसौ कन्यां निजां मुने! ॥६४ ।। लवणाङ्कुशयोवंशमस्मत्सम्बन्धिनोऽस्य तत् । आख्याहि ज्ञातजामातृवंशो येनैष तुष्यति ।। ६५ ।। अथोचे नारदः स्मित्वा वंशं को वेत्ति नाऽनयोः ? । यस्योत्पत्त्यादिकन्दः स भगवानृषभध्वजः ।।६६ ॥ चक्रिणो ह्यनयोर्वंशे भरताद्याः कथाश्रुताः । को न वेत्त्यनयोस्तातो प्रत्यक्षो रामलक्ष्मणौ ।। ६७ ।। गर्भस्थयोरप्यनयोरयोध्यालोकजन्मनः । अपवादाच्चकितेन त्यक्ता रामेण जानकी ॥ ६८ ॥ अथाऽडशो हसित्वोचे ब्रह्मन्न खलु साधु तत् । चक्रे रामेण वैदेहीं त्यजता दारुणे वने ।। ६९ ।। भूयांसि ह्यपवादस्य कारणानि निराकृतौ । भवन्ति तत्र किं न्वेवं विद्वानपि चकार सः ? ॥७० ।। पप्रच्छ लवणोऽथैवं दूरे कियति सा पुरी । यस्यां वसति मे तातः सानुजः सपरिच्छदः ? || ७१ ।। मुनिश्चोचे तव पिता यस्यां विश्वैकनिर्मलः । साऽयोध्या पूरितः षष्टियुग्योजनशतं खलु ।। ७२ ॥ १ अयोध्यालोकाज्जन्म यस्य तस्मादपवादात् ।
लवणाङ्कुशयोर्विवाहः ।
।। २३२ ।।