Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 264
________________ त्रिषष्टिशलाकापुरुषचरिते |२१७॥ सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् । इति ध्यायन्नात्तदीक्षो नमस्कारपरायणः । मृत्वा सनत्कुमारेऽभून्मधुर्देवो महर्द्धिकः ।। १७८ ।। मधुदेहस्योपरिष्टात्तद्विमानसुरा व्यधुः । पृष्पवृष्टिं जुघुषुश्च मधुर्देवो जयत्विति ।। १७९ ॥ तत्छूलं देवतारूपमुपेत्य चमरान्तिके । शत्रुघ्नान्मधुनिधनं छलोत्पन्नं शशंस च ।। १८०॥ ततो मित्रवधामर्षाच्टमरः प्राचलत् स्वयम् । पृष्टः क्व यासीति तार्क्ष्यस्वामिना वेणुदारिणा ।। १८१ ।। हन्तु स्वमित्रहन्तारं शत्रुघ्नं मथुरास्थितम् । यास्यामीति तदाख्याते वेणुदार्यवदत्पुनः ॥ १८२ ।। धरणेन्द्राद्रावणेन या लब्धा साऽपि निर्जिता । शक्तिः सौमित्रिणा पुण्यप्रकृष्टेनाऽर्धचक्रिणा ।। १८३ ।। रावणोऽपि हतस्तेन तत्पत्तिस्तु कियान् मधुः ? । शत्रुघ्नो लक्ष्मणादेशादवधीत् प्रधने मधुम् ।। १८४ ।। उवाच चमरेन्द्रो यच्छक्तिः सौमित्रिणा जिता । कन्यकाया विशल्यायाः प्रभावेण तदा खलु ।। १८५ ॥ तस्याश्चाऽब्रह्मचारिण्याः स प्रभावो गतोऽधुना । किं वा तेनेन ? यास्यामि तं हन्तुं मित्रघातकम् ।। १८६ ।। इत्युक्त्वा चमरो रोषाच्छत्रुघ्नविषयं ययौ । सौराज्यसुस्थितं तत्र सर्वं लोकं ददर्श च ।। १८७ ॥ प्राक् प्रजोपद्रवेणोपद्रवाम्येतं मधुद्विषम् । इति बुद्ध्या व्यधाद्व्याधीन् विविधांस्तत्प्रजासु सः ।। १८८ ॥ कुलदेवतया तच्च ज्ञापितो व्याधिकारणम् । शत्रुघ्नोऽगादयोध्यायां रामलक्ष्मणसन्निधौ ।। १८९ ।। तौ देशभूषणकुलभूषणावागतौ तदा । रामलक्ष्मणशत्रुघ्ना उपेत्य च ववन्दिरे ॥ १९० ।। आग्रही हेतुना केन शत्रुघ्नो मथुरां प्रति ? । इति रामेण पृष्टः सन् बभाषे देशभूषणः ॥ १९१ ।। शत्रुघ्नजीव उत्पद्य मथुरायामनेकशः । विप्रोऽभूच्छ्रीधरो नाम रूपवान् साधुसेवकः ।। १९२ ।। १ गृहीतदीक्षो भावचारित्रवानित्यर्थः । २ युद्धे । ३ हे इन स्वामिन् । शत्रुजस्य | मधुना सह युद्धम् । ।।२१७॥

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324