________________
त्रिषष्टिशलाकापुरुषचरिते |२१७॥
सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् ।
इति ध्यायन्नात्तदीक्षो नमस्कारपरायणः । मृत्वा सनत्कुमारेऽभून्मधुर्देवो महर्द्धिकः ।। १७८ ।। मधुदेहस्योपरिष्टात्तद्विमानसुरा व्यधुः । पृष्पवृष्टिं जुघुषुश्च मधुर्देवो जयत्विति ।। १७९ ॥ तत्छूलं देवतारूपमुपेत्य चमरान्तिके । शत्रुघ्नान्मधुनिधनं छलोत्पन्नं शशंस च ।। १८०॥ ततो मित्रवधामर्षाच्टमरः प्राचलत् स्वयम् । पृष्टः क्व यासीति तार्क्ष्यस्वामिना वेणुदारिणा ।। १८१ ।। हन्तु स्वमित्रहन्तारं शत्रुघ्नं मथुरास्थितम् । यास्यामीति तदाख्याते वेणुदार्यवदत्पुनः ॥ १८२ ।। धरणेन्द्राद्रावणेन या लब्धा साऽपि निर्जिता । शक्तिः सौमित्रिणा पुण्यप्रकृष्टेनाऽर्धचक्रिणा ।। १८३ ।। रावणोऽपि हतस्तेन तत्पत्तिस्तु कियान् मधुः ? । शत्रुघ्नो लक्ष्मणादेशादवधीत् प्रधने मधुम् ।। १८४ ।। उवाच चमरेन्द्रो यच्छक्तिः सौमित्रिणा जिता । कन्यकाया विशल्यायाः प्रभावेण तदा खलु ।। १८५ ॥ तस्याश्चाऽब्रह्मचारिण्याः स प्रभावो गतोऽधुना । किं वा तेनेन ? यास्यामि तं हन्तुं मित्रघातकम् ।। १८६ ।। इत्युक्त्वा चमरो रोषाच्छत्रुघ्नविषयं ययौ । सौराज्यसुस्थितं तत्र सर्वं लोकं ददर्श च ।। १८७ ॥ प्राक् प्रजोपद्रवेणोपद्रवाम्येतं मधुद्विषम् । इति बुद्ध्या व्यधाद्व्याधीन् विविधांस्तत्प्रजासु सः ।। १८८ ॥ कुलदेवतया तच्च ज्ञापितो व्याधिकारणम् । शत्रुघ्नोऽगादयोध्यायां रामलक्ष्मणसन्निधौ ।। १८९ ।। तौ देशभूषणकुलभूषणावागतौ तदा । रामलक्ष्मणशत्रुघ्ना उपेत्य च ववन्दिरे ॥ १९० ।। आग्रही हेतुना केन शत्रुघ्नो मथुरां प्रति ? । इति रामेण पृष्टः सन् बभाषे देशभूषणः ॥ १९१ ।। शत्रुघ्नजीव उत्पद्य मथुरायामनेकशः । विप्रोऽभूच्छ्रीधरो नाम रूपवान् साधुसेवकः ।। १९२ ।। १ गृहीतदीक्षो भावचारित्रवानित्यर्थः । २ युद्धे । ३ हे इन स्वामिन् ।
शत्रुजस्य | मधुना सह युद्धम् ।
।।२१७॥