________________
त्रिषष्टिशलाकापुरुषचरिते २१८॥
सप्तमं पर्व | अष्टमः | सर्गः रामलक्ष्मणरावणचरितम् ।
सोऽन्यदाऽध्वनि यात्राजमहिष्या ललिताख्यया । दृधे रागादथाऽऽनायि स्वान्तिके रन्तुकाम्यया ।। १९३ ॥|| आगाच्चाऽतर्कितो राजा क्षुभिता ललिताऽपि च । चौरोऽसाविति पूच्चक्रे राज्ञाऽधारि स तु द्विजः ॥१९४ ।। राजादेशाद्वधार्थं स वधस्थानमनीयत । प्रतिज्ञातव्रतोऽमोचि कल्याणमुनिना ततः ।। १९५ ।। विमुक्तः प्राव्रजत् सोऽपि तपस्तप्त्वा दिवं ययौ । च्युत्वाऽभून्मथुरापुर्यां चन्द्रभद्रनृपात्मजः ।। १९६ ॥ स काञ्चनप्रभाराज्ञीकुक्षिभूरचलाभिधः । अत्यन्तवल्लभश्चाऽऽसीच्चन्द्रभद्रस्य भूपतेः ।। १९७ ।। भानुप्रभाद्यैः सापत्नैः सोऽचलोऽष्टभिरग्रजैः । व्यापादयितुमारेभे राजाऽयं मा स्म भूदिति ।। १९८ ।। तन्मन्त्रे मन्त्रिणाऽऽख्याते नंष्ट्वाऽगादचलोऽन्यतः । भ्रमंश्चाऽविध्यत वने कण्टकेन गरीयसा ।। १९९ ।। स क्रन्दन् पथि दृष्टश्च पुंसा श्रावस्तिवासिना । पितृनिर्वासितेनाऽङ्कनाम्नैधोभारधारिणा ।। २००॥ काष्ठभारं विमुच्याऽङ्कोऽपनिन्ये तस्य कण्टकम् । हृष्टः स कण्टकं दत्वोवाचाऽङ्क साधु भोः ! कृतम् ।।२०१ ।। अचलं मथुरापुर्यां त्वं शृणोषि यदा नृपम् । तदा तत्र समागच्छेः परमो ह्युपकार्यसि ।। २०२ ॥ कौशाम्ब्यामचलोऽथाऽगात्तत्र सिंहगुरोः पुरः । इन्द्रदत्तनृपं धन्वाऽभ्यस्यन्तं समुदैक्षत ।। २०३ ॥ सिंहेन्द्रदत्तयोः सोऽपि धानुष्कत्वमदर्शयत् । तस्मै दत्तामिन्द्रदत्तोऽदत्त पुत्री भुवा सह ।। २०४ ।। सोऽसाधयज्जातबलो देशानङ्गादिकांस्ततः । मथुरां चाऽन्यदाऽगच्छद्युयुधे चाऽग्रजैः सह ॥२०५ ॥ भानुप्रभादीन् स भ्रातॄन् बद्ध्वाऽथवपि चाऽग्रहीत् । तन्मुक्त्यै मन्त्रिणां प्रैषीच्चन्द्रभद्रोऽचलान्तिके ॥२०६ ॥ आख्यत्तेषां स्ववृत्तान्तमचलस्तेऽपि मन्त्रिणः । विज्ञाय गत्वा चाऽऽचख्युश्चन्द्रभद्राय सत्वरम् ।। २०७॥ १ गच्छन् । २ काष्टभारवाहकेन । ३ दत्तानाम्नीम् । ४ पृथ्व्या ।
शत्रुघ्नेन मधोर्धातः देशभूषणमुनिना शत्रुघ्नस्य मथुराग्रहकथनम्।
।। २१८ ॥