________________
त्रिषष्टिशलाका
पुरुषचरिते
सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् ।
२१९॥
अचलं चन्द्रभद्रोऽपि हृष्टः पुर्यामवीविशत् । क्रमेण निजराज्ये तं लघीयांसमपि न्यधात् ।। २०८ ।। पित्रा निर्वास्यमानांस्तान् भ्रातॄन् भानुप्रभादिकान् । कथञ्चिदचलोऽरक्षच्चक्रे चाऽदृष्टसेवकान् ॥ २०९ ।। अन्यदा नटरङ्गस्थेनाऽङ्को दृष्येऽचलेन सः । हन्यमानः प्रतीहारैरानायि च निजान्तिके ।। २१० ।। तस्मै तज्जन्मभूमि तां श्रावस्तीमचलो ददौ । तौ द्वौ सम्भूय चक्राते राज्यमद्वैतसौहृदौ ।।२११ ।। तावन्यदा प्राव्रजतां समुद्राचार्यसन्निधौ । मृत्वा कालेन चाऽभूतां ब्रह्मलोके सुरोत्तमौ ।। २१२ ।। च्युत्वा ततोऽचलजीवः शत्रुघ्नोऽभूत्तवाऽनुजः । प्राग्जन्ममोहनीयेन ततोऽसौ मथुराग्रही ॥२१३ ।। च्युत्वा ततोऽङ्कजीवोऽपि सेनापतिरयं तव । कृतान्तवदनो नाम समजायत राघव ! ॥२१४ ।। इतश्च श्रीनन्दनस्य प्रभापुरपुरेशितुः । भार्यायां धारणीनाम्न्यां सप्ताऽभूवन् क्रमात्सुताः ।। २१५ ।। सुरनन्दः श्रीनन्दः श्रीतिलकः सर्वसुन्दरः । जयन्तश्चामरश्चाऽपि जयमित्रश्च सप्तमः ।। २१६ ।। मासजातं सुतं राज्ये न्यस्य श्रीनन्दनोऽन्यदा । गुरोः प्रीतिकरस्याऽन्ते प्राव्राजीत्तैः सुतैः सह ।। २१७ ॥ श्रीनन्दनो ययौ मोक्षं सुरनन्दादयस्तु ते । सप्ताऽप्यासंस्तपःशक्त्या जवाचारणलब्धयः ।। २१८ ।। विहरन्तः पुरी जग्मुर्मथुरां ते महर्षयः । प्रावृट् चाऽभूत्तदा तस्थुरधिशैलगुहागृहम् ।। २१९ ।। चक्रुः षष्टाष्टमादीनि ते तपांसि सदाऽपि हि । उत्पत्य दूरदेशेषु पारणं चक्रिरे पुनः ।। २२० । १ गुप्तसेवकान् । २ आनीतः । ३ एतच्छ्लोकानन्तरं-"इत्युक्त्वा मुनिवौं तौ ततोऽन्यत्र विजहतुः । रामचन्द्रादयः सर्वे स्वं स्वं स्थानं मुदा ययुः । इति भावार्थकः श्लोकोऽपेक्षित इति प्रतिभाति । ४ अष्टम सुतमित्यर्थः ।
सुरनन्दादीनां तपः प्रभाववर्णनम् ।
||२१९ ॥