________________
त्रिषष्टिशलाकापुरुषचरिते IR२०॥
सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् ।
भूयोऽपि मथुराशैलगुहायां तस्थुरेत्य च । तत्प्रभावाच्चमरभूळधिस्तत्र क्षयं ययौ ।। २२१ ॥ पारणायाऽन्यदोपेत्याऽयोध्यायां ते ययुः पुरि । अर्हद्दत्तश्रेष्ठिनश्च भिक्षार्थ प्राविशन् गृहे ।। २२२ ॥ सावज्ञं तान् स वन्दित्वा दध्यौ श्रेष्ठीति के ह्यमी ? | नेहत्याः साधुवेषास्तद्वर्षास्वपि विहारिणः ॥२२३ ॥ पृच्छामि किममून् ? यद्वा पाखण्डैर्भाषितैरलम् । तस्यैवं ध्यायतस्ते तु तद्ध्वा प्रतिलम्भिताः ।। २२४ ॥ आचार्यस्य धुतेर्जग्मुर्वसतौ ते महर्षयः । अभ्युत्थाय द्युतिनाऽपि वन्दितास्ते सगौरवम् ।।२२५ ॥ अकालचारिणः इति तत्साधुभिरवन्दिताः । दत्तासनास्ते द्युतिना तत्र पारणकं व्यधुः ।। २२६ ॥ आयाता मथुरापुर्या यास्यामस्तत्र सम्प्रति । इत्याख्याय समुत्पत्य स्वं स्थानं ते पुनर्ययुः ।। २२७ ॥ तेषां जङ्घाचारणानां गुणस्तोत्रं धुतिय॑धात् । तत्साधवः कृतावज्ञाः पश्चात्तापं प्रचक्रिरे ।। २२८ ॥ तत्छुत्वा श्रावकः सोऽर्हद्दत्तोऽप्यनुशयं व्यधात् । कार्तिकश्वेतसप्तम्यां ययौ च मथुरां पुरीम् ।। २२९ ॥ अर्चित्वा तत्र चैत्यानि सप्तर्षीस्तानवन्दत । क्षमयामास चाऽवज्ञादोषं शंसन् स्वयं कृतम् ।। २३० ।। सप्तर्षीणां प्रभावेण शान्तरोगं स्वमण्डलम् । विज्ञायेयाय कार्तिक्यां शत्रुघ्नोऽपि हि तां पुरीम् ॥२३१ ॥ तान्नत्वोवाच शत्रुघ्नो भिक्षा मे गृह्यतां गृहे । प्रत्यूचुस्तेऽपि साधूनां राजपिण्डो न कल्पते ।। २३२ ॥ भूयोऽप्युवाच शत्रुघ्नो यूयं मय्युपकारिणः । मद्देशे दैविको रोगः शान्तो युष्मत्प्रभावतः ॥२३३ ।। तल्लोकानुग्रहायेह किञ्चिदद्याऽपि तिष्ठत । सर्वा प्रवृत्तिर्भवतां ह्यन्योपकृतिहेतवे ॥२३४ ॥ तेऽप्यूचिरे गतः प्रावृटकालोऽयं तीर्थयात्रया । अधुना विहरिष्यामो नैकत्र मुनयः स्थिराः ।। २३५ ।। १ चमरेन्द्रकृतः ।२ अत्र वास्तव्याः । ३ तस्य धुतेः साधुभिः । ४ गुणस्तुतिम् । ५ कृताऽवज्ञा यैस्ते । ६ पश्चात्तापम् ।
सुरनन्दादीनां तपः प्रभाव
वर्णनम् ।
॥२२० ॥