________________
सप्तमं पर्व अष्टमः
त्रिषष्टिशलाकापुरुषचरिते ।।२२१॥
सर्गः
रामलक्ष्मणरावणचरितम् ।
गृहे गृहे त्वं गृहिणां कारयेर्बिम्बमार्हतम् । पुर्यामस्यां ततो जातु व्याधिर्भावी न कस्यचित् ॥२३६ ॥ इत्युक्त्वा ते समुत्पत्य ययुः सप्तर्षयोऽन्यतः । शत्रुघ्नोऽपि तथा चक्रे लोकश्चाऽभून्निरामयः ।। २३७ ।। तेषां सप्तऋषीणां च प्रतिमा रत्ननिर्मिताः । स चक्रे मथुरापुर्यां ककुप्सु चतसृष्वपि ।।२३८ ।। इत्तश्च वैताढ्यगिरौ दक्षिणश्रेणिभूषणे । पुरे रत्नपुरे रत्नरथो राजा तदाऽभवत् ।। २३९ ।। तस्य चन्द्रमुखीकुक्षिजन्मा नाम्ना मनोरमा । उद्यौवना कन्यकाऽभूपेणाऽपि मनोरमा ।। २४० ।। दातव्या कस्य कन्येयमिति मन्त्रपरे नृपे । उपेत्य नारदोऽवोचल्लक्ष्मणस्येयमर्हति ।। २४१ ।। पुत्री रत्नरथस्याऽथ कुपिता गोत्रवैरतः । भृत्यान् भ्रूसञ्ज्ञयाऽऽदिक्षद्विटोऽयं कुटयतामिति ।। २४२ ।। उत्तिष्ठतो जिघांसूस्तान् धीमान् विज्ञाय नारदः । समुत्पत्य पंतत्रीव प्रययावुपलक्ष्मणम् ।। २४३ ॥ लिखित्वा तां पटे कन्यां दर्शयामास नारदः । लक्ष्मणाय स्ववृत्तान्तं तं चाऽऽचख्यावशेषतः ।। २४४ ॥ तद्रपदर्शनाज्जातानुरागो लक्ष्मणः क्षणात् । समं रामेण तत्राऽऽगाद्रक्षोविद्याधरैर्वृतः ।। २४५ ।। जितः सौमित्रिणा चाऽऽशु तत्र रत्नरथो ददौ । रामाय कन्यां श्रीदामां लक्ष्मणाय मनोरमाम् ॥२४६ ।। वैताढ्यदक्षिणश्रेणिं जित्वा सर्वां च राघवौ । भूयोऽयोध्यामीयतुः क्ष्मां पालयन्तौ च तस्थतुः ।। २४७ ।। षोडशान्तःपुरवधूसहस्रं लक्ष्मणस्य तु । महिष्योऽष्यवऽभवंस्तत्र विशल्या रूपवत्यपि ।। २४८ ॥ वनमाला च कल्याणमालिका रत्नमालिका । जितपद्माऽभयवती चाऽष्टमा तु मनोरमा ।। २४९ ।।
॥युग्मम् ॥ १ हन्तुमिच्छून् । २ पक्षीव ।
मनोरमाया लक्ष्मणेन सह लग्नः ।
||२२१ ॥