________________
त्रिषष्टिशलाकापुरुषचरिते I२१६॥
सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावण
चरितम् ।
प्रयच्छ मथुरां मह्यं स्वयमेव मधोरहम् । प्रतीकारं करिष्यामि व्याधेरिव भिषग्वरः ।। १६३ ।। शत्रुघ्नमत्याग्रहिणं ज्ञात्वा रामोऽन्वशादिति । अपशूलः प्रमत्तश्च योधनीयो मधुस्त्वया ।। १६४ ।। अनुशिष्येत्यदाद्रामस्तूणावक्षय्यसायकौ । कृतान्तवदनं नाम सेनान्यं च सहाऽदिशत् ।। १६५ ॥ शिलीमुखानग्निमुखानणवावर्तधन्व च । लक्ष्मणोऽपि ददौ तस्मायाशंसन् विजयं परम् ।। १६६ ।। ततः प्रतस्थे शत्रुघ्नः प्रयाणैश्च निरन्तरैः । ययावुपमधूपघ्नमवात्सीच्च नदीतटे ।। १६७ ।। तत्राऽऽदौ प्रेषिताश्चारास्तस्याऽऽख्यन्नेत्य यन्मधुः । गतः कुबेरोद्यानेऽस्ति मथुरापूर्वदिस्थिते ।। १६८ ।। पल्या जयन्त्या साधू स तत्र क्रीडापरोऽधुना । अस्त्रागारे च तच्छूलं कालोऽयं तस्य योधने ।। १६९ ॥ ततश्छलज्ञः शत्रुघ्नः प्राविशन्मथुरां निशि । प्रविशन्तं मधुं तत्र रुरोध च बलैः स्वयम् ।। १७०॥ जघान समरे चाऽऽदौ लवणं मधुनन्दनम् । रामायणरणारम्भे खरं नारायणो यथा ।। १७१ ॥ मधुः सुतवधक्रुद्धो धावित्वा स्फालयन् धनुः । युयुधे दाशरथिना रथिना रथिनां वरः ।। १७२ ।। अन्योऽन्यमस्त्रैरस्त्राणि च्छिन्दानौ तावुभावपि । शस्त्राशस्त्रि प्रचक्राते चिरं देवासुराविव ।। १७३ ।। धनुः समुद्रावर्त चाऽग्निमुखांश्च शिलीमुखान् । सौमित्रिदत्तानस्मार्षीत्तुर्यो दशरथात्मजः ।। १७४ ।। तत्स्मृतोपनतं धन्वाऽधिज्यीकृत्याऽग्निपत्रिभिः । तैर्जघान मधुं वीरः शार्दूलमिव लुब्धकः ।। १७५ ।। तद्बाणघातविधुरो मधुरेवमचिन्तयत् । शूलं पाणौ न मेऽभ्यागान्न हतो लक्ष्मणानुजः ।। १७६ ॥ गतं मम मुधा जन्म जिनेन्द्रो न यदर्चितः । कारितानि न चैत्यानि दत्तं पात्रेषु नो मया ।। १७७ ।। १ शूलरहितः । २ अक्षय्याः सायका इषवो ययोस्तौ । ३ मधूपघ्नस्य समीपम् । ४ अग्निशरैः ।
लक्ष्मणस्य | राज्या|भिषेकः, सर्वेषां राज्यविभागः, शत्रुघ्नस्य मधुना सह युद्धम् ।
।। २१६ ।।