________________
त्रिषष्टिशलाकापुरुषचरित २१५॥
सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् ।
प्रियदर्शनजीवोऽपि ब्रह्मलोकात् परिच्युतः । बभूव भरतो भ्राता भवतोऽयं महाभुजः ।। १४७ ।। भरतालोकनाज्जातजातिस्मृतिरसौ गजः । सद्यो गतमदो जज्ञे विवेके हि न रौद्रता ।। १४८ ।। इति पूर्वभवान् श्रुत्वा विरक्तो भरतोऽधिकम् । व्रतं राजसहस्रेणाऽग्रहीन्मोक्षमियाय च ।। १४९ ।। सहस्र तेऽपि राजानः पालयित्वा चिरं व्रतम् । नानालब्धिजुषो भूत्वाऽनुरूपं पदमासदन् ।। १५० ॥ कुञ्जरः सोऽपि वैराग्याद्विधाय विविधं तपः । प्रपन्नानशनो मृत्वा ब्रह्मलोके सुरोऽभवत् ।। १५१ ।। व्रतं भरतमाताऽपि कैकेयी समुपाददे । पालयित्वा निष्कलङ्कं प्रपेदे पदमव्ययम् ।। १५२ ।। भरते च प्रव्रजिते भूपा भूचरखेचराः । अर्थयाञ्चक्रिरे राममभिषेकाय भक्तितः ।। १५३ ।। लक्ष्मणो वासुदेवोऽयं भवद्भिरभिषिच्यताम् । तानेवमादिशद्रामस्ते तथैवाऽऽशु चक्रिरे ।। १५४ ।। बलदेवत्वाऽभिषेकं रामभद्रस्य च व्यधुः । राज्यं द्वावप्यपातां चाऽष्टमौ तौ बलशाङ्गिणौ ।। १५५ ॥ पद्मो बिभीषणायाऽऽदाद्रक्षोद्वीपं क्रमागतम् । सुग्रीवाय कपिद्वीपं श्रीपुरं च हनूमते ।। १५६ ।। विराधाय तु पाताललङ्कामृक्षपुरं पुनः । नीलाय प्रतिसूर्याय पुरं हनूपुरं पुनः ।। १५७ ।। देवोपगीतनगरं तद्रत्नजटिने पुनः । भामण्डलाय वैताढ्ये नगरं रथनूपुरम् ।। १५८ ॥ अन्येभ्योऽपि प्रदायैवं रामः शत्रुघ्नमभ्यधात् । यस्तुभ्यं रोचते वत्स ! तं देशमुररीकुरु ॥ १५९ ॥ मथुरां मे प्रयच्छेति शत्रुघ्नेनाऽर्थितः पुनः । रामो जगाद दुःसाध्या सा वत्स ! मथुरा पुरी ।। १६० ॥ तत्र राज्ञो मधोः शूलं चमरेण पुराऽर्पितम् । दूरात् परबलं सर्वं निहत्याऽभ्येति तत्करे ।। १६१ ।। शत्रुघ्नोऽप्येवमवदद्देव ! रक्षःकुलान्तक! । तवाऽस्मि नन्वहं भ्राता त्राता कस्तस्य मधुधि ? || १६२ ।।
लक्ष्मणस्य राज्याभिषेकः ।
।।२१५ ॥