________________
त्रिषष्टिशलाकापुरुषचरिते २१४॥
सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् ।
सा दत्तबुद्ध्या रमणमुत्थाप्याऽरमयत्तदा । विनोदोऽप्यसिमाकृष्यं तं जघानाऽविशद्वितः ।। १३२ ।। शाखया रमणच्छुर्या विनोदोऽपि हतस्तदा । चिरं भ्रान्त्वा भवं चाऽभूदिभ्यपुत्रो धनाभिधः ।। १३३ ।। रमणोऽपि भवं भ्रान्त्वा धनस्यैवाऽभवत्सुतः । लक्ष्मीकुक्षिसमुद्भूतो भूषणो नामधेयतः ।। १३४ ।। द्वात्रिशदिभ्यकन्याः स धनोक्तः परिणीतवान् । ताभिः क्रीडन्नन्यदास्थान्निशि स्वगृहमूर्धनि ।। १३५ ॥ तत्र यामे निशस्तुर्ये श्रीधरस्य महामुनेः । उत्पन्ने केवलेऽद्राक्षीद्देवैरारब्धमुत्सवम् ।। १३६ ।। जातधर्मपरीणामः सद्योऽत्युत्तीर्य वेश्मतः । तं वन्दितुमचालीच्च मार्गे दष्टश्च सोऽहिना ।। १३७ ।। शुभेन परिणामेन भ्रान्त्वा शुभगतीश्चिरम् । जम्बूद्वीपेऽत्र विदेहे पुरे रत्नपुरे पुरे ॥१३८ ।। महिष्यां हरिणीनाम्न्यामचलाख्यस्य चक्रिणः । प्रियदर्शननामाऽभूत् स सूनुर्धर्मतत्परः ।। १३९ ।। स प्रविव्रजिषुः पित्रनुरोधात्परिणीतवान् । त्रीणि कन्यासहस्राणि संविग्नोऽस्थात्तथाऽपि हि ।। १४० ॥ चतुःषष्टिसहस्राणि वर्षाणां स तपः परम् । चरित्वा गृहवासेऽपि ब्रह्मलोके सुरोऽभवत् ।। १४१ ।। भ्रान्त्वा धनोऽपि संसारं स पोतनपुरेऽभवत् । शकुनाऽग्निमुखब्रह्मपल्यां मृदुमतिः सुतः ।। १४२ ।। स पित्रा दुर्विनीतत्वाद् गृहान्निर्वासितोऽभ्रमत् । धूर्तः सर्वकलाकल्पो भूत्वा भूयोऽप्यगाद् गृहम् ।। १४३ ।।। सदा दिदेवे द्यूतेन न त्वजीयत केनचित् । दिने दिने देवकेभ्यो भूयिष्ठमजयद्धनम् ॥ १४४ ।। वसन्तसेनया सार्धं भुङ्क्त्वा भोगान् स वेश्यया । अन्ते गृही श्रामण्यो ब्रह्मलोके सुरोऽभवत् ।। १४५ ।। च्युत्वा पूर्वभवमायादोषाद्वैताढ्यपर्वते । अयं बभूव भुवनालङ्कारो नाम कुञ्जरः ।। १४६ ।। १ शकुना चाऽसौ अग्निमुखब्रह्मणः पत्नी चेति समासः, तस्याम् । २ सर्वकलासु योग्यः । ३ दिदेव-चिक्रीड ।
भरतभुवनालङ्कारयोः पूर्वभवः ।
॥२१४ ।।