________________
त्रिषष्टिशलाकापुरुषचरिते ॥२१३॥
सप्तमं पर्व अष्टमः सर्ग रामलक्ष्मणरावणचरितम् ।
भरतभुवना
सूरोदयोऽपि तत्रैव विश्वभूतेर्द्विजन्मनः । भार्यायामग्निकुण्डायां नाम्ना श्रुतिरतिः सुतः ।। ११७॥ अभूत् कुलङ्करो राजा स गच्छंस्तापसाश्रमम् । अवधिज्ञानिनेत्यूचे चाऽभिनन्दनसाधुना ।। ११८ ।। तप्यमानेन पञ्चाग्नितपस्तत्र तपस्विना । दग्धुमानीतकाष्ठस्य मध्ये तिष्ठति पन्नगः ॥ ११९ ।। सोऽहिः पुरा भवे क्षेमङ्कराख्यस्ते पितामहः । तद्दारु दारयित्वा तं यत्नादाकृष्य रक्ष भोः !।। १२० ॥ आकुलस्तद्वचः श्रुत्वा गत्वा तद्दार्वदारयत् । ददर्शाऽन्तः स्थितं चाऽहिं राजा विस्मयते स्म च ।। १२१ ।। आदित्सते स्म प्रव्रज्यां यादद्राजा कुलङ्करः । द्विज श्रुतिरतिः सोऽथ तावदेवमवोचत ।। १२२ ।। धर्मो नाऽऽम्नायिको वोऽयं निर्बन्धश्चेत्तवान्तिमे । दीक्षा वयस्युपादेया किं सम्प्रत्यपि खिद्यते ? ॥ १२३ ॥ राजाऽपि तद्गिरा भग्नदीक्षोत्साहो मनागपि । मया किमत्र कर्तव्यमिति ध्यायन्नवास्थितः ।। १२४ ॥ श्रीदामाख्याऽथ तद्राज्ञी सदा सक्ता पुरोधसा । नूनं मां ज्ञातवानेष इत्याशङ्कत दुर्मतिः ।। १२५ ।। आवां यावन्न हन्त्येष तावद्धन्मीति सा विषम् । पुरोधोऽनुमता दत्वा कुलङ्करममारयत् ।। १२६ ।। क्रमाच्छुतिरतिः सोऽपि मृतो भूयोऽप्युभावपि । चिरं भव भ्रमतुस्तौ नानायोनिनिपातिनौ ।। १२७ ॥ पुरेऽन्यदा राजगृहे कपिलब्रह्मणः सुतौ । सावित्र्यां युग्मतोऽभूतां विनोदरमणाभिधौ ॥ १२८ ।। रमणो वेदमध्येतुं ययौ देशान्तरं ततः । कालेनाऽधीतवेदः सन्नागाद्राजगृह निशि ।। १२९ ।। अकालोऽसाविति धिया तदाऽस्थाद् बहिरेव सः । सर्वसाधारणेऽस्वाप्सीदेकस्मिन् यक्षमन्दिरे ।। १३० ॥ विनोदभार्या शाखाख्या दत्तेन ब्रह्मणा समम् । तत्राऽऽगात्कृतसङ्केता विनोदोऽपि हि तामनु ।। १३१ ।। १ अयं धर्म आम्नायिको वैदिको नाऽस्तीति सम्बन्धः ।
लझरयोः
[प्रसङ्गः।
॥२१३ ॥