________________
त्रिषष्टिशलाकापुरुषचरिते २१२॥
सर्गः
त्यजन्नः सह राज्येन भूयस्त्वद्विरहव्यथाम् । किं दत्से ? वत्स ! तत्तिष्ठ कुर्वाज्ञां मम पूर्ववत् ।। १०२ ।।||* इत्याग्रहपरं रामं ज्ञात्वा नत्वा च सोऽचलत् । यावत्सौमित्रिणा तावदुत्थायाऽधारि पाणिना ॥ १०३ ।।
सप्तमं पर्व भरतं च तथा यान्तं व्रताय कृतनिश्चयम् । ज्ञात्वा सीताविशल्याद्यास्तत्राऽऽजग्मुः ससम्भ्रमाः ॥ १०४ ।।
| अष्टमः विस्मारयितुकामास्ता भरतस्य व्रताग्रहम् । जलक्रीडाविनोदार्थमर्थनां चक्रिरेतराम् ।। १०५ ।। उपरोधेन तासां च ययौ सान्तःपुरोऽपि सः । क्रीडासरसि चिक्रीड विरक्तोऽपि मुहूर्तकम् ।। १०६ ।। रामलक्ष्मणजलान्निर्गत्य भरतस्तीरेऽस्थाद्राजहंसवत् । स्तम्भमुन्मूल्य भुवनालङ्कारस्तत्र चाऽऽययौ ।। १०७ ।।
रावण
चरितम् । मदान्धोऽप्यमदः सोऽभूत् सद्यो भरतदर्शनात् । तद्दर्शनेन भरतोऽप्यवाप परमां मुदम् ।। १०८ ।। सम्भ्रमाद्रामसौमित्री तस्योपद्रवकारिणः । करिणो बन्धनायाऽऽशु ससामन्तावुपेयतुः ।। १०९ ।।
| रामादीनां रामाज्ञया हस्तिपकैः स स्तम्भे हस्त्यनीयत । आगतौ च मुनी देशभूषणः कुलभूषणः ।। ११०॥
स्वजनउद्याने समवसृतौ वन्दितुं तौ महामुनी । प्रययुः पद्मसौमित्रिभरताः सपरिच्छदाः ।। १११ ॥
भरतस्य वन्दित्वा तौ च पप्रच्छ रामो मम करी कथम् । अमदोऽजनि भुवनालङ्कारो भरतेक्षणात् ? ।। ११२ ॥
जलक्रीडा अथाऽऽख्यत्केवली देशभूषणो नाभिसूनुना । समं सहस्राश्चत्वारो राजानः प्राव्रजन पुरा ।। ११३ ॥ ते तु स्वामिन्यनाहारे कृतमौने विहारिणि । निर्विण्णा जज्ञिरे सर्वे तापसा वनवासिनः ।। ११४ ॥ प्रह्लादनसुप्रभराट्तनयौ तेषु तापसौ । चिरं चन्द्रोदयसूरोदयाख्यौ भ्रमतुर्भवम् ।। ११५ ।।
।।२१२ ॥ चन्द्रोदयो गजपुरे राज्ञो हरिमतेरभूत् । भार्यायां चन्द्रलेखायां सूनुर्नाम्ना कुलङ्करः ।। ११६ ।। १ प्रार्थनाम् । २ तापसा जाता इति सम्बन्धः ।
मिलापः,