________________
सप्तमं पर्व अष्टमः
त्रिषष्टिशलाकापुरुषचरिते ॥२११॥
सर्गः
रामलक्ष्मणरावणचरितम् ।
रामादीनां
उत्तीर्य पुष्पकात्तत्र रामः सौमित्रिणा सह । जगाम मातृसदनं सुहृद्हृदयनन्दनः ।। ८७ ॥ रामोऽपराजितां देवी मातृवर्गमथाऽपरम् । नमश्चक्रे ससौमित्रिस्ताभिश्चाऽऽशीभिरैध्यत ।। ८८ ॥ अथ सीताविशल्याद्याः प्रणेमुरपराजिताम् । श्वश्रूरन्याश्च तत्पादपद्धेषु निहितालकाः ।। ८९ ।। अस्मद्वद्वीरप्रकाण्डप्रसविन्योऽस्मदाशिषा । भूयास्त यूयमिति ताः श्वश्र्वोऽप्याशासतोच्चकैः ।। ९० ।। अथाऽपराजिता देवी भूयो भूयोऽपि लक्ष्मणम् । स्पृशन्ती पाणिना मूनि चुम्बन्ती चैवमब्रवीत् ।। ९१ ॥ दिष्ट्या दृष्टोऽसि हे वत्स ! पुनर्जातोऽसि चाऽधुना । कृत्वा विदेशगमनं विजयीह यदागमः ।। ९२ ।। तानि तानि च कष्टानि वनवासभवान्यसौ । रामः सीता चाऽतिनिन्ये तवैव परिचर्यया ॥९३ ।। लक्ष्मणोऽप्यवदत्तातेनेवाऽऽर्येणाऽतिलालितः । त्वयेव सीतादेव्या च वनेऽप्यस्थामहं सुखम् ।। ९४ ।। स्वेच्छादुर्ललितैर्मे चाऽऽर्यस्य वैराणि जज्ञिरे । सीतापहारो यन्मूलः किमन्यद्देवि ! गद्यते ? ।।९५ ।। परन्तु युष्मदाशीर्भिर्लचित्वा वैरिसागरम् । मातः सपरिवारोऽपि क्षेमेणाऽऽर्य इहाऽऽययौ ।। ९६ ॥ अथोत्सवमयोध्यायां भरतोऽकारयन्मुदा । पुरतो रामपादानां पत्तिमात्रत्वमाचरन् ।। ९७ ॥ अन्यदा रामभद्रं तु प्रणम्य भरतोऽभ्यधात् । आर्य ! त्वदाज्ञया राज्यमियत्कालं मया धृतम् ।। ९८ ॥ प्राव्रजिष्यं तदैवाऽहं तातपादैः सह प्रभो! । अर्गला नाऽभविष्यच्चेदार्याज्ञा राज्यपालने ॥ ९९ ॥ मां व्रतायाऽनुमन्यस्व स्वयं राज्यं प्रतीच्छ च । भवोद्विग्नस्त्वयि प्राप्ते न ह्यतः स्थातुमुत्सहे ।। १०० ॥ रामोऽप्युदश्रुस्तं स्माऽऽह किमेवं वत्स ! भाषसे ? | कुरु राज्यं त्वमेवेह त्वय्युत्का वयमागताः ॥१०१ ॥ १ स्थापितकेशाः । २ वीरपुत्रप्रसविन्यः । ३ गृहाण । ४ त्वयि उत्का उत्कण्ठिताः ।
| स्वजनमिलापः ।
।।२११ ।।