________________
त्रिषष्टिशलाकापुरुषचरिते ।२१०॥
सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् ।
नत्वा बिभीषणोऽप्यूचे तिष्ठाऽत्राऽहनि षोडश । यावत् स्वैः शिल्पिभी रम्यां तामयोध्यां करोम्यहम् ।।७२ ॥ एवमस्त्विति रामोक्तः स विद्याधरशिल्पिभिः । दिनैः षोडशभिश्चक्रेऽयोध्यां स्वर्गपुरीनिभाम् ॥ ७३ ।। तदा रामेण सत्कृत्य विसृथे नारदो ययौ । आख्यच्च राममातृणां पुत्रागममहोत्सवम् ।। ७४ ।। अथाऽह्नि षोडशे सान्तःपुरावारुह्य पुष्पकम् । शक्रेशानाविवैकस्थौ प्रतस्थाते रघूद्वहौ ।।७५ ॥ रावणानुजसुग्रीवभामण्डलनृपादिभिः । अन्वीयमानौ नगरीमयोध्यां चेयतुः क्षणात् ॥७६ ॥ आयान्तौ पुष्पकारूढौ दूरादपि निरीक्ष्य तौ । अभ्यगात्कुञ्जरारूढो भरतः सानुजोऽपि हि ॥७७ ॥ आयाति भरते रामाज्ञयोपक्षिति पुष्पकम् । जगाम पालकमिव पाकशासनशासनात् ।।७८ ।। आदावप्युत्ततारेभाद्भरतो भ्रातृसंयुतः । उत्तरेतुः पुष्पकाच्च सोत्कण्ठौ रामलक्ष्मणौ ।। ७९ ॥ पादयोः पतितं रामो भरतं साश्रुलोचनम् । परिरेभे समुत्थाप्य मूनि चुम्बन् मुहुर्मुहुः ।। ८० ।। शत्रुघ्नमपि पादान्ते लुठन्तं रघुपुङ्गवः । उत्थाप्य परिमृज्य स्वांशुकेन परिषस्वजे ॥ ८१ ॥ ततो भरतशत्रुघ्नौ नमन्तौ लक्ष्मणोऽपि हि । प्रसारितभुजो बाढमालिलिङ्ग ससम्भ्रमः ।। ८२ ।। आरोहदनुजैः सार्धं त्रिभी रामोऽथ पुष्पकम् । समादिदेश चाऽयोध्याप्रवेशाय कृतत्वरः ।। ८३ ॥ तूर्येषु व्योम्नि भूमौ च वाद्यमानेष्वथोन्मुदौ । अयोध्या रामसौमित्री निजां प्राविशतां पुरीम् ।। ८४ ॥ सोत्कण्ठैरुन्मुखैः पौरैर्मयूरैरिव वारिदौ । निर्निमेषैः प्रेक्ष्यमाणौ स्तूयमानौ च निर्भरम् ।। ८५ ॥ अर्कवैद्दीयमानार्थी स्थाने स्थाने पुरीजनैः । स्वं प्रासादं प्रसन्नास्यौ जग्मतू रामलक्ष्मणौ ।।८६ ।।युग्मम् ।। १ इन्द्रशासनात् । २ स्ववस्त्रेण । ३ सूर्यवद्दीयमानोऽर्थः पूजोपचारविशेषो याभ्यां तौ ।
HARSHAHARASHASASHASIRSS
| मेघवाह| नादीनां | सिद्धिः, | रामादीना|मयोध्या| यामागमनम् ।
॥२१०॥