________________
त्रिषष्टिशलाकापुरुषचरिते २०९॥
सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् ।
अथ स्वस्वप्रतिपन्नास्ताः कुमारीर्यथाविधि । राघवावुपयेमाते खेचरीगीतमङ्गलौ ।। ५७ ।। भोगांस्तत्रोपभुआनो निर्विघ्नं रामलक्ष्मणौ । सुग्रीवाद्यैः सेव्यमानौ षडब्दीमतिनिन्यतुः ।। ५८॥ अत्राऽन्तरे विन्ध्यस्थल्यामिन्द्रजिन्मेघवाहनौ । तौ सिद्धिमीयतुर्जज्ञे तीर्थ मेघरथं च तत् ।। ५९ ॥ नर्मदायां कुम्भकर्णो नद्यां सिद्धिमियाय च । पृष्टरक्षितमित्यासीतत्तीर्थं चाऽभिधानतः ।।६०॥ इतश्च साकेतपुरे रामलक्ष्मणमातरौ । तद्वार्तामप्यजानन्त्यौ तस्थतुर्भृशदुःखिते ।। ६१ ॥ तदा च धातकीखण्डादागतस्तत्र नारदः । पप्रच्छ भक्तिनने ते विमनस्के कुतो युवाम् ।। ६२ ।। अथाऽपराजितोवाच पुत्रो मे रामलक्ष्मणौ । पित्राज्ञया वनं यातौ स्नुषया सीतया सह ।। ६३ ।। सीतापहाराल्लङ्कायां जग्मतुस्तौ महाभुजौ । रावणेन रणे शक्त्या लक्ष्मणस्ताडितः किल ।। ६४ ॥ शक्तिशल्योद्धरणाय विशल्याऽऽनायि तत्र च । न विद्मो यदभूत्किञ्चिद्वत्सो जीवति वा न वा ? ।। ६५ ।। अभिधायेति हा वत्स ! वत्सेति करुणस्वरम् । रुरोद सा रोदयन्ती सुमित्रामपि निर्भरम् ।। ६६ ।। ततस्ते नारदोऽवोचद्भवतं सुस्थिते युवाम् । युष्मत्पुत्रावुपेष्यामि तथाऽऽनेष्यामि ताविह ।। ६७ ॥ तयोरेवं प्रतिश्रुत्य नारदो गगनाध्वना । जनश्रुत्या ज्ञातवृत्तो लङ्कायां राममभ्यगात् ।। ६८ ॥ सत्कृत्य पृथे रामेण किमत्राऽऽगा ? इति स्वयम् । तन्मातृदुःखवृत्तान्तमाचख्यौ नारदोऽखिलम् ॥६९ ॥ सद्यः सरणरणकः पद्मोऽवादीद् बिभीषणम् । विस्मृत्य दुःखं मातॄणां त्वद्भक्त्याऽस्थामिहाऽधिकम् ॥ ७० ॥ अस्मदुःखाद्विपद्यन्ते न यावन्मातरो हि नः । तावत्तत्राऽद्य यास्यामोऽनुमन्यस्व महाशय ! ।। ७१ ।। १ रणरणकेनोद्वेगेन सहितः ।
| मेघवाह| नादीनां सिद्धिः ।
।।२०९ ॥