________________
त्रिषष्टिशलाकापुरुषचरिते I२०८॥
| सप्तमं पर्व
अष्टमः सर्गः रामलक्ष्मणरावणचरितम् ।
भामण्डलो नमश्चक्रे सीतां सीताऽपि तं मुदा । आशिषाऽऽनन्दयामास मुनिवाक्यसमानया ।। ४२ ।। स्वनामाख्यानपूर्वं च कपिराजो बिभीषणः । हनूमानङ्गदोऽन्येऽपि प्रणेमुर्जनकात्मजाम् ।। ४३ ।। पार्वणेन शशाङ्केन चिरात् कुमुदिनीव सा । रामेण शुशुभे सीता विकाशं समुपेयुषी ।। ४४ ।।। ससीतोऽध्यास्य भुवनालङ्कारं राघवो गजम् । जगाम रावणावासं सुग्रीवाद्यैः समावृतः ॥ ४५ ॥ तदन्तश्च मणिस्तम्भसहस्राङ्क जिनेशितुः । चैत्यं श्रीशान्तिनाथस्य प्रविवेश विवन्दिषुः ।। ४६ ॥ बिभीषणार्पितैस्तत्र कुसुमाद्यैरुपस्करैः । शान्तिमानर्च काकुत्स्थः सीतासौमित्रिसंयुतः ।। ४७ ॥ बिभीषणाभ्यर्थितोऽथ बिभीषणगृहं ययौ । रामः ससीतासौमित्रिः सुग्रीवादिभिरन्वितः ॥४८ ॥ तत्र देवार्चनं स्नानभोजनादि च राघवः । चक्रे सपरिवारोऽपि मानयन् रावणानुजम् ।। ४९ ॥ रामं सिंहासनासीनमग्रासीनो बिभीषणः । वाससी परिधायोभे बभाषेऽथ कृताञ्जलिः ।। ५० ॥ रत्नस्वर्णादिकोशोऽयमिदं हस्तिहयादि च । अयं च राक्षसद्वीपो गृह्यतां पत्तिरस्मि ते ।। ५१ ।। राज्याभिषेकमधुना कुर्महे ते त्वदाज्ञया । पवित्रय पुरी लङ्कां प्रसीदाऽनुगृहाण माम् ।। ५२ ।। रामोऽप्युवाच दत्तं ते लङ्काराज्यं मया पुरा । व्यस्मार्षीस्तदिदानी किं महात्मन् ! भक्तिमोहितः ? ।। ५३ ॥ एवं निषिध्य तं पद्मो लङ्काराज्ये तदैव हि । अभ्यषिञ्चत् स्वयं प्रीतः प्रतिज्ञातार्थपालकः ।। ५४ ॥ सीतासौमित्रिसुग्रीवप्रमुखैरावृतो ययौ । रामोऽथ रावणगृहे सुधर्मायामिवाऽद्रिभित् ।। ५५ ।। तत्र सिंहोदरादीनामुद्वोढुं प्राक् प्रतिश्रुताः । कन्या रामाज्ञयाऽऽनैषुस्तत्र विद्याधरोत्तमाः ॥ ५६ ।। १ पूर्णिमासम्बन्धिना । २ इन्द्रः । ३ अङ्गीकृताः ।
सीतारामयोर्मिलापः, लङ्कायां रामादीनां परिभ्रमणम् ।
।। २०८ ॥