________________
त्रिषष्टि
शलाकापुरुषचारेते ॥२०७॥
सोऽवधेर्भ्रातरं ज्ञात्वा तत्रोपन्नं महीपतिम् । तं बोधयितुमभ्यागान्मुनिरूपधरः सुरः ।। २८ ॥ रतिवर्धनराजेनाऽर्पिते पट्टे निषद्य सः । शशंस प्राग्भवं तस्य स्वस्य च भ्रातृसौहृदात् ॥ २९ ॥ सञ्जातजातिस्मरणाद्विरक्तो रतिवर्धनः । प्राव्राजीदथ मृत्वा च ब्रह्मलोके सुरोऽभवत् ॥ ३० ॥ च्युत्वा ततो विदेहेषु विबुद्धनगरे युवाम् । अभूतं भ्रातरौ भूपौ प्रव्रज्याऽच्युतमीयथुः ।। ३१ ।। च्युत्वाऽच्युताद्दशास्यस्य प्रतिविष्णोस्तु सम्प्रति । पुत्रौ युवामजायेथामिन्द्रजिन्मेघवाहनौ ॥ ३२ ॥ रतिवर्धनमाता तु भवं भ्रात्वेन्दुमुख्यपि । मन्दोदरी समभवञ्जननी युवयोरियम् ॥ ३३ ॥ कुम्भकर्णेन्द्रजिन्मेघवाहनाद्या निशम्य तत् । मन्दोदर्यादयश्चाऽपि तदैवाऽऽददिरे व्रतम् ॥ ३४ ॥ मुनिं नत्वा तु तं रामः ससौमित्रिकपीश्वरः । बिभीषणेन प्रह्वेण वेत्रिणेवाऽग्रगामिना ।। ३५ ।। दर्श्यमानपथो विद्याधरीभिः कृतमङ्गलः । ऋद्ध्या महत्येन्द्र इव लङ्कायां प्राविशत्पुरि ॥ ३६ ॥
॥ युग्मम् ॥
गिरेः पुष्पगिरेर्मूर्धन्युद्याने तत्र मैथिलीम् । गत्वा ददर्श काकुत्स्थो यथाख्यातां हनूमता ॥ ३७ ॥ तामुत्क्षिप्य निजोत्सङ्गे द्वितीयमिव जीवितम् । तदैव जीवितम्मन्यो धारयामास राघवः ॥ ३८ ॥ इयं महासती सीता जयत्विति मैरुत्पथे । तदानीं जुघुषुः सिद्धगन्धर्वाद्याः प्रमोदिनः ।। ३९ ।। सीतादेव्या नमश्चक्रे पादौ प्रक्षालयन्निव । निरन्तरैरश्रुजलैः सुमित्रानन्दनो मुदा ॥ ४० ॥ चिरं जीव चिरं नन्द चिरं जय मदाशिषा । इति ब्रुवाणा वैदेही जघ्रौ शिरसि लक्ष्मणम् ॥ ४१ ॥
१ आसने । २ नम्रेण । ३ आकाशे ।
सप्तमं पर्व
अष्टमः सर्गः
रामलक्ष्मण
रावण
चरितम् ।
सीतारामयोर्मिलापः ।
।। २०७ ।।