________________
सप्तमं पर्व अष्टमः
त्रिषष्टिशलाकापुरुषचरिते IR०६॥
सर्गः
रामलक्ष्मणरावणचरितम् ।
पूर्ववत् स्वस्वराज्यानि कुरुध्वमधुनाऽपि हि । युष्मल्लक्ष्म्या न नः कृत्यं हे वीराः ! क्षेममस्तु वः ।। १४ ॥|| इत्युक्ताः पद्मनाभेन युगपच्छोकविस्मयौ । बिभ्राणाः कुम्भकर्णाद्या जगदुर्गद्दाक्षरम् ।। १५ ॥ नार्थो राज्येन नः कश्चित्प्राज्येनाऽपि महाभुज! । ग्रहीष्यामः परिव्रज्या मोक्षसाम्राज्यसाधनीम् ।। १६ ॥ अत्राऽन्तरे च कुसुमायुधोद्याने महामुनिः । अप्रमेयबलो नाम चतुर्ज्ञानी समाययौ ।। १७ ।। तत्रैव निशि तस्याऽभूत् केवलज्ञानमुज्ज्वलम् । चक्रुश्च केवलज्ञानमहिमानं दिवौकसः ।।१८ ॥ प्रातश्च रामसौमित्री कुम्भकर्णादयश्च ते । उपेत्य तमवन्दन्त ततो धर्म च शुश्रुवुः ॥ १९ ॥ पप्रच्छतुर्देशनान्ते शक्रजिन्मेघवाहनौ । परं वैराग्यमापन्नौ पुरातनभवान्निजान् ।।२० ॥ मुनिः सोऽथाऽब्रवीत्पुर्यां कौशाम्ब्यामिह भारते । निःस्वौ बन्धू युवां जातौ नाम्ना प्रथमपश्चिमौ ॥२१ ।। तावन्यदा भवदत्ताद्धर्म श्रुत्वा महामुनेः । व्रतं जगृहतुः शान्तकषायौ च विजहतुः ॥ २२ ॥ अन्येधुस्तौ तु कौशाम्ब्यां गतौ ददृशतुर्नुपम् । पल्येन्दुमुख्या क्रीडन्तं नन्दिघोष मधूत्सवे ।।२३ ॥ तं दृष्ट्वा पश्चिमोऽकार्षीन्निदानं तपसाऽमुना । ईदृक्क्रीडापरः पुत्रो भूयासमनयोरहम् ॥ २४ ॥ साधुभिर्वार्यमाणोऽपि निदानान्न न्यवर्तत । मृत्वा च पश्चिमो जज्ञे तयोस्तुग्रतिवर्धनः ॥२५॥ क्रमेणोद्यौवनः प्राप्तराज्यः स रतिवर्धनः । पितेव रेमे विविधं रमणीभिः समावृतः ॥२६॥ मृत्वा प्रथमसाधुस्तु निर्निदानतपोवशात् । बभूव पञ्चमे कल्पे त्रिदशः परमर्द्धिकः ।। २७ ।। १ वसन्तोत्सवे ।२ तुक्-पुत्रः ।
रामलक्ष्मणादीनां लायां प्रवेशः, ज्ञानिनः पूर्वभवपृच्छनम् ।
।।२०६॥