________________
त्रिषष्टिशलाकापुरुषचरिते २०५॥
सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् ।
अष्टमः सर्गः।) अथो बिभीषणस्तत्र कान्दिशीकान्निशाचरान् । एवमाश्वासयामास ज्ञातिस्नेहवशीकृतः ॥१॥ पद्मनारायणावेतावष्टमौ बलशाङ्गिणौ । शरण्यौ शरणायाऽऽशु श्रयध्वमविशङ्किता।। २ ॥ ते सर्वे शिश्रियुः पद्मसौमित्री तौ च चक्रतुः । तेषां प्रसादं वीरा हि प्रजास समदृष्टयः ।।३।। हतं च भ्रातरं दृष्ट्वा शोकावेशाद् बिभीषणः । मर्तुकामः स्वयमपि चकर्ष छुरिका निजाम् ।। ४ ।। तया स्वकुक्षिमाघ्रातं दधे रामो बिभीषणम् । हा भ्रात_तरित्युच्चैः क्रन्दन्तं करुणाक्षरम् ।। ५ ॥ मन्दोदर्यादिभिः सार्धं रुदन्तमुपरावणम् । इति तं बोधयामास पद्मनाभः सलक्ष्मणः ॥ ६ ॥ ईदृक्पराक्रमः सोऽयं न हि शोच्यो दशाननः । यस्याऽऽशशङ्किरे दूरे समरेष्वमरा अपि ॥७॥ वीरवृत्त्याऽनया मृत्युं गतोऽसौ कीर्तिभाजनम् । तदस्योत्तरकार्याणि कुरुध्वं रुदितैरलम् ।।८ ॥ इत्युदित्वा पद्मनाभो महात्मा प्राप्तबन्धनान् । कुम्भकर्णेन्द्रजिन्मेघवाहनादीनमोचयत् ।।९॥ बिभीषणः कुम्भकर्णः शक्रजिन्मेघवाहनः । मन्दोदर्यपि सम्भूयाऽपरेऽपि पतदश्रवः ॥१०॥ दशग्रीवाङ्गसंस्कारं सद्यो गोशीर्षचन्दनैः । कर्पूरागरुसम्मिश्रैर्विदधुालितानलैः ।। ११ ॥
॥युग्मम् ।। पद्मः पद्मसरस्येत्य ते च स्नात्वा जलाअलिम् । सममश्रुजलैः कोष्णैः प्रददुर्दशमौलये ॥ १२ ॥ गिराऽभिरामया रामः किरन्निव सुधारसम् । सलक्ष्मणः कुम्भकर्णप्रभृतीनित्यभाषत ।। १३ ।। १ बिभीषणादयः । २ ईषदुष्णैः ।
रामलक्ष्मणादीनां लायां प्रवेशः।
। २०५ ॥