________________
त्रिषष्टिशलाकापुरुषचरिते
२०४॥
कृत्वा प्रदक्षिणां तत्तु सौमित्रेर्दक्षिणे करे । अवतस्थे रविरिवोदयपर्वतमूर्धनि ।। ३७१ ॥ विषण्णो रावणो दध्यौ सत्यं जातं मुनेर्वचः । तेषां बिभीषणादीनां सत्यश्चालोचनिर्णयः ।। ३७२ ।। विषण्णं भ्रातरं प्रेक्ष्य भूयोऽप्यूचे बिभीषणः । भ्रातरद्याऽपि वैदेहीं मुञ्च त्वं चेज्जिजीविषुः ।। ३७३ ।। क्रुद्धस्तं रावणोऽवोचत् किं मेऽस्त्रं चक्रमेव रे!? | द्विषं सचक्रमप्येनं द्राग्घनिष्यामि मुष्टिना ।। ३७४ ।। इति दद्विब्रुवतो रक्षोनाथस्य लक्ष्मणः । वक्षस्तेनैव चक्रेण कूष्माण्डवदपाटयत् ।। ३७५ ।। तदा च ज्येष्ठकृष्णैकादश्यामनश्च पश्चिमे । यामे मृतो दशग्रीवश्चतुर्थ नरकं ययौ ।।३७६ ।।
सपदि जय जयेति व्याहरद्भिर्युसद्भिर्व्यरचि कुसुमवृष्टिलक्ष्मणस्योपरिष्टात् । समजनि च कपीना ताण्डवं चण्डहर्षोत्थितकिलकिलनादापूर्णरोदोनिकुञ्जम् ॥३७७ ॥
सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
रावणलक्ष्मणयोयुद्धम्, रावणस्य घातश्च।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषधिशलाकापुरुषचरिते महाकाव्ये
सप्तमे पर्वणि रावणवधो नाम
सप्तमः सर्गः ।
।। २०४ ।।
१ मन्त्रनिर्णयः ।