________________
त्रिषष्टिशलाकापुरुषचरिते २०३॥
सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
तद्वाचा विषसध्रीच्या मूर्च्छिता जनकात्मजा । निपपात दशास्यस्य तस्यामाशेव तत्क्षणम् ।। ३५६ ।। कथञ्चिल्लब्धसञ्ज्ञा सा जग्राहैवमभिग्रहम् । मृत्युश्चेद्रामसौमित्र्योस्तदाऽस्त्वनशनं मम ।। ३५७ ।। तच्छ्रुत्वा रावणो दध्यौ रामे स्नेहो निसर्गजः । अस्यास्तदस्यां मे रागः स्थले कमलरोपणम् ।।३५८ ।। कृतं युक्तं मया तनाऽवज्ञातो यद् बिभीषणः । नाऽमात्याः मानिताः स्वं च कुलमेतत्कलङ्कित्तम् ।।३५९ ।। मुञ्चाम्येतामद्य चेत्तन्न विवेकपदे पतेत् । रामाक्रान्तेन मुक्तेयमिति स्यात्प्रत्युताऽयशः ।। ३६० ।। बद्ध्वेह रामसौमित्री समानेष्ये ततस्तयोः । अर्पयिष्याम्यमूं धर्म्य यशस्यं च हि तद्भवेत् ।। ३६१ ।। इति निश्चित्य लकेशस्तामतीत्य विभावरीम् । युद्धे चचालाऽशकुनैर्वार्यमाणोऽपि दुर्मदः ।। ३६२ ।। भूयः प्रववृते युद्धं रामरावणसैन्ययोः । अत्युद्भटभटभुजास्फोटत्रासितदिग्गजम् ।। ३६३ ।। विधूयाऽशेषरक्षांसि तूलानीव महाबलः । लक्ष्मणस्ताडयामास विशिखैर्दशकन्धरम् ।। ३६४ ।। सौमित्रेर्विक्रमं दृष्ट्वा साशङ्को दशकन्धरः । सस्मार बहुरूपां तां विद्यां विश्वभयङ्कराम् ।। ३६५ ।। स्मृतिमात्रोपस्थितायां विद्यायां तत्र रावणः । विचक्रे भैरवाण्याशु स्वानि रूपाण्यनेकशः ।। ३६६ ।। भूमौ नभसि पृष्ठेऽग्रे पार्श्वयोरपि लक्ष्मणः । अपश्यद्रावणानेव विविधायुधवर्षिणः ।। ३६७ ।। तावद्रप इवैकोऽपि तार्यस्थो लक्ष्मणोऽपि तान् । जघान रावणान् बाणैश्चिन्तितोपनतैः शरैः ।। ३६८ ।। नारायणस्य तैर्बाणैर्विधुरो दशकन्धरः । सस्मार जाज्वलच्चक्रमर्धचक्रित्वलाञ्छनम् ।। ३६९ ।। रोषारुणाक्षस्तच्चक्रं भ्रमयित्वा नभस्तले । मुमोच रावणः शस्त्रमन्त्यं रामानुजन्मने ।। ३७० ।। १ विषतुल्यया । २ सीतायां विषये रावणस्याऽऽशेव । ३ भवेत् । ४ वायुः ।
रावणलक्ष्मणयो
॥२०३ ॥