________________
त्रिषष्टिशलाकापुरुषचरिते २०२॥
सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
तदादेशेन स द्वाःस्थ पुर्यामाघोषयत्तथा । तच्च चारनरैरेत्य सुग्रीवाय न्यवेद्यत ।। ३४१ ॥ सुग्रीवोऽप्यब्रवीदेवं न यावद् बहुरूपिणीम् । विद्यां साधयति स्वामिंस्तावत्साध्यो दशाननः ।। ३४२ ।। स्मित्वा पद्मोऽप्युवाचैवं शान्तं ध्यानपरायणम् । कथं दशास्यं गृह्णामि ? न ह्यहं स इव च्छली ।। ३४३ ।। इति रामवचः श्रुत्वा छन्नमेवाऽङ्गदादयः । विद्याभ्रंशाय लङ्केशं शान्तिचैत्यस्थितं ययुः ।। ३४४ ।। विदधुर्विविधांस्तत्रोपसर्गास्ते निरर्गलाः । मनागपि न तु ध्यानादचालीद्दशकन्धरः ।। ३४५ ।। अथाऽङ्गदो जगादैवं रामाद्भीतेन किं त्वया । इदं पाखण्डमारब्धमप्राप्तशरणेन भोः ! ?|| ३४६ ।। त्वया परोक्षे मद्भर्तुर्हता भार्या महासती । मन्दोदरी तु ते पत्नी पश्यतोऽपि हराम्यहम् ।। ३४७ ।। इत्युदीर्याऽमन्दरोषोऽकर्षन्मन्दोदरी कैचैः । सोऽनाथामिव रुदन्ती कुररीकरुणस्वराम् ।। ३४८ ।। रावणो ध्यानसंलीनः प्रेक्षाञ्चक्रेऽपि तां न हि । प्रादुरासीच्च सा विद्या द्योतयन्ती नभस्तलम् ।। ३४९ ।। सेत्यूचे तव सिद्धाऽस्मि ब्रूहि किं करवाणि भोः ! ?। करोमि ते वशे विश्वं कियन्मात्रो हि राघवौ ।।३५० ॥ रावणः प्रत्युवाचैवं सर्वं निष्पद्यते त्वया । स्मृता समापतेः काले स्वस्थानं गच्छ सम्प्रति ।। ३५१ ॥ तद्विसृष्ट तिरोधत्त सा विद्या तेऽपि वानराः । स्कन्धावारं निजं जग्मुरुत्पत्य पवमानवत् ।। ३५२ ॥ मन्दोदर्यङ्गदोदन्तं शुश्राव च दशाननः । चक्रे च सद्योऽहङ्कारगर्भ हुङ्कारमुच्चकैः ।।३५३ ।। स्नात्वा भुक्त्वा च लङ्केशोऽगाद्देवरमणे वने । ऊचे सीतां च सुचिरं मया तेऽनुनयः कृतः । ३५४ ।। उज्झित्वा नियमभङ्गभीरुत्वमधुना पुनः । रमयिष्ये प्रसह्य त्वां हत्वा त्वत्पतिदेवरौ ।। ३५५ ।। १ केशैः ।
विद्यायै शान्तिस्नात्रादिकरणम्, तत्सिद्धिश्च ।
॥२०२ ।।