________________
त्रिषष्टिशलाकापुरुषचरिते I/२०१॥
सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
तेषां सीतार्पणगिरा मर्मणीव हतोऽधिकम् । अन्तर्दूनो दशमुखश्चिरं स्वयमचिन्तयत् ।। ३२६ ।। विद्याया बहूरूपाया हृदि निर्णीय साधनम् । शान्तिचैत्यं ययौ शान्तकषायीभूय रावणः ।। ३२७ ।। स्नात्रं श्रीशान्तिनाथस्य पयस्कुम्भैर्दशाननः । स्वयमिन्द्र इवाऽकर्षीद्भक्त्या विकसिताननः ॥३२८ ।। गोशीर्षचन्दनेनाऽगारागं पुष्पैश्च दैवतैः । पूजां विधाय श्रीशान्तेः स्तुतिमेव विनिर्ममे ॥ ३२९ ।। देवाधिदेवाय जगत्तायिने परमात्मने । श्रीमते शान्तिनाथाय षोडशायाऽर्हते नमः ।। ३३० ॥ श्रीशान्तिनाथ ! भगवन् ! भवाम्भोनिधितारण ! । सर्वार्थसिद्धमन्त्राय त्वन्नाम्नेऽपि नमो नमः ।। ३३१ ।। ये तवाऽष्टविधां पूजां कुर्वन्ति परमेश्वर ! । अष्टाऽपि सिद्धयस्तेषां करस्था अणिमादयः ।। ३३२ ।। धन्यान्यक्षीणि यानि त्वां पश्यन्ति प्रतिवासरम् । तेभ्योऽपि धन्यं हृदयं तदृष्ये येन धार्यसे ।। ३३३ ।। देव ! त्वत्पादसंस्पर्शादपि स्यान्निर्मलो जनः । अयोऽपि हेमीभवति स्पर्शवेधिरसान्न किम् ? ॥ ३३४ ।। त्वत्पादाब्जप्रणामेन नित्यं भूलुण्ठनैः प्रभो ! । शृङ्गारतिलकीभूयान्मम भाले किंणावलिः ॥ ३३५ ।। पदार्थः पुष्पगन्धाद्यैरुपहारीकृतैस्तव । प्रभो ! भवतु मद्राज्यसम्पद्वल्लेः सदा फलम् ।। ३३६ ॥ भूयो भूयः प्रार्थये त्वामिदमेव जगद्विभो ! । भगवन् ! भूयसी भूयात्त्वयि भक्तिर्भवे भवे ।। ३३७ ।। स्तुत्वेति शान्ति लङ्केशः पुरो रत्नशिलास्थितः । तां साधयितुमारेभे विद्यामक्षम्रजं दधत् ।। ३३८ ।। अथ मन्दोदरी द्वाःस्थं यमदण्डमदोऽवदत् । जिनधर्मरतोऽष्टाहान्यस्तु सर्वोऽपि पूर्जनः ।। ३३९ ॥ न करिष्यति यस्त्वेवं तस्य दण्डो वधात्मकः । भविष्यतीति लङ्कायामाघोषय हतानकः ॥३४० ॥ १ निश्चित्य । २ जगद्रक्षित्रे । ३ तैरक्षिमिदृष्टः । ४ क्षतावलिः । ५ हत आनको वाद्यविशेषो येन सः ।
विद्यायै शान्तिस्नात्रादिकरणम् ।
॥२०१ ॥