________________
सप्तमं पर्व
सप्तमः
त्रिषष्टिशलाकापुरुषचरिते २००॥
सर्गः रामलक्ष्मणरावणचरितम् ।
त्रीणि कन्यासहस्राणि तुभ्यं दास्यामि तेन च । सन्तुष्य नो चेत्ते सर्वं न ह्येतन्न च जीवितम् ।।३११ ॥ बभाषे पद्मनाभोऽथ नाऽर्थो मे राज्यसम्पदा । न चाऽन्यप्रमदावर्गभोगेन महताऽपि हि ।।३१२ ॥ प्रेषयिष्यत्यर्चयित्वा जानकी रावणो यदि । तदा मोक्ष्यामि तद्बन्धुतनयानन्यथा न हि ॥ ३१३ ॥ सामन्तः पुनरप्यूवे राम ! नैतत्तवोचितम् । स्त्रीमात्रकस्थाऽस्य कृते स्वं क्षेप्तुं प्राणसंशये ।।३१४ ॥ सौमित्रिरेकवारं चेज्जीवितो रावणाहतः । जीविष्यति कथं सोऽद्यं त्वं चाऽमी च प्लवङ्गमाः ।। ३१५ ।। एकोऽपि रावणो हन्तुमिदं विश्वमपीश्वरः । सर्वथा तद्वचो मान्यमुदकं विमृश स्वयम् ।। ३१६ ।। लक्ष्मणस्तद्गिरा क्रुद्धोऽभ्यधाद्रे दूतपांशन ! । स्वशक्ति परशक्ति वा वेत्त्यद्याऽपि न रावणः ।। ३१७ ।। हतबन्धुपरीवारो भार्याशेषीकृतोऽपि सन् । पौरुषं नाटयत्येष एषा का तस्य धृष्टता ? || ३१८ ।। शेषैकमूलमुशलच्छिन्नाशेषजटस्तरुः । यथा सोऽपि तथैकाङ्गः कियत्स्थास्यति रावणः ॥ ३१९ ।। तद्गच्छ संवाहय तं युद्धाय दशकन्धरम् । कृतान्त इव सज्जो मे तं व्यापादयितुं भुजः ।। ३२० ।। लक्ष्मणेनैवमाक्षिप्तो विभाषितुमनाः स तु । उत्थाय धृत्वा ग्रीवायां वानरैर्निरवास्यत ।। ३२१ ।। रावणाय स गत्वाऽऽख्यत् सर्वं राघववाचिकम् । सचिवान् रावणोऽप्यूचे किं कार्यं ? ब्रूत सम्प्रति ।।३२२ ॥ अब्रुवन्मन्त्रिणोऽप्येवं सीतार्पणमिहोचितम् । व्यतिरेकफलं दृष्टं पश्याऽन्वयफलं प्रभो ! ।।३२३ ।। अन्वयव्यतिरेकाभ्यां सर्वं कार्य परीक्ष्यते । एकेन व्यतिरेकेण किं स्थितोऽसि दशानन ! ।। ३२४ ॥ अक्षता बहवोऽद्याऽपि बन्धवः सूनवश्च ते । सीतार्पणाद्विमुक्तैस्तैः सममेधस्व सम्पदा ॥ ३२५ ॥ १ सन्तुथे भव । २ जटाः शाखाः । ३ सीतार्पणाभावेऽनर्थरूपं फलं दृष्टमिति व्यतिरेकः, सीतार्पणरूपस्याऽन्वयस्य फलं पश्येति सम्बन्धः ।
शक्तिनाशाद् रावणस्य चिन्ता, मन्त्रिभिरुपदेशनम् ।
। २००॥