________________
त्रिषष्टि
शलाका
पुरुषचरिते 11988 11
इत्युक्तो मुक्तवान् शक्ति मारुतिस्तां महाभुजः । मुक्तमात्रा च सा शक्तिर्लज्जितेव तिरोदधे ।। २९६ ।। विशल्याऽपि हि सौमित्रिं भूयः पस्पर्श पाणिना । विलिलेप च गोशीर्षचन्दनेन शनैः शनैः ।। २९७ ॥ रूढव्रणोऽथ सौमित्रिर्द्राक् प्रसुप्त इवोत्थितः । सस्वजे रामभद्रेण वर्षताऽश्रुजलं मुदा ।। २९८ ।। सर्वं विशल्यावृत्तान्तं रामस्तस्मै शशंस च । तत्स्नानपयसा चाऽऽशु स्वान् परांश्चाऽभ्यषेचयत् ॥ २९९ ॥ कन्यासहस्रसहितां विशल्यां रामशासनात् । तदानीमेव सौमित्रिरुपयेमे यथाविधि ।। ३०० ।। सौमित्रेर्जीवनोद्वाहोत्साहजन्मा महोत्सवः । विद्याधरनृपैश्चक्रे जगदाश्चर्यकारणम् ।। ३०१ ।। सौमित्रिर्जीवित इति चरैर्नक्तञ्चराधिपः । विज्ञाय मन्त्रयाञ्चक्रे समं मन्त्रिवरैरिति ॥ ३०२ ॥ अभवन्मम भावोऽयं सौमित्रिः शक्तिताडितः । प्रातर्मरिष्यति ततो रामोऽपि स्नेहपीडितः ॥ ३०३ ॥ यास्यन्ति कपयो नंष्ट्वा ते च मद्बन्धुसूनवः । कुम्भकर्णेन्द्रजिन्मुख्याः स्वयमेष्यन्ति मामिह ।। ३०४ ॥ अधुना दैववैगुण्याल्लक्ष्मणः सोऽपि जीवितः । मया मोचयितव्यास्ते कुम्भकर्णादयः कथम् ? ।। ३०५ ।। मन्त्रिणोऽप्येवमूचुस्तं जानकीमोक्षणं विना । न मोक्षः कुम्भकर्णादिवीराणां प्रत्युताऽशिवम् ॥ ३०६ ॥ इयत्यपि गते स्वामिन् ! रक्ष रक्ष निजं कुलम् । उपायश्चाऽत्र नाऽन्योऽस्ति रामानुनयनं विना ॥ ३०७ ॥ रावणस्तानवज्ञाय दूतं सामन्तमादिशत् । सामदामदण्डपूर्वमनुशिष्योपराघवम् ।। ३०८ ।। स गत्वा द्वाःस्थविज्ञप्तः सुग्रीवादिसमावृतम् । पद्मनाभं नमस्कृत्य व्याजहारेति धीरगीः ।। ३०९ ।। दशास्यस्त्वां वदत्येवं बन्धुवर्गं विमुञ्च मे । जानकीमनुमन्यस्व राज्यार्धं च गृहाण मे ।। ३१० ।। १ निशाचराधिपः रावणः ।
सप्तमं पर्व
सप्तमः सर्गः
रामलक्ष्मणरावण
चरितम् ।
शक्तिनाशाद्
रावणस्य
चिन्ता ।
।। १९९ ।।