________________
त्रिषष्टिशलाका
पुरुषचरिते
।।१९८ ।।
भरतस्य ममाऽप्येवमुत्पन्नः प्रत्ययः प्रभो ! । आ प्रत्यूषादानयत विशल्यास्नानवारि तत् ॥ २८२ ॥ त्वर्यतां त्वर्यतां तस्मात्प्रत्यूषे किं करिष्यथ ? । पर्यस्ते शकटे हन्त किं कुर्वीत गणाधिपः ? ।। २८३ ।। भामण्डलं हनूमन्तमङ्गदं च रघूद्वहः । आदिशत्प्रतिभरतं विशल्यास्नानवारिणे ॥ २८४ ॥ प्रययुस्ते विमानेनाऽयोध्यां पवनरंहसा । प्रासादाङ्के च ददृशुः शयानं भरतं नृपम् ।। २८५ ।। भरतस्य प्रबोधाय ते गीतं चक्रुरम्बरे । राजकार्येऽपि राजान उत्थाप्यन्ते ह्युपायतः ।। २८६ ।। विबुध्य भरतेनाऽपि दृष्टः पृष्टः पुरो नमन् । ऊचे भामण्डलः कार्यं नाऽऽप्तस्याऽऽप्ते प्ररोचना ।। २८७ ॥ सेत्स्यत्येतन्मया तत्रेयुषेति भरतस्ततः । तद्विमानाधिरूढोऽगात् पुरं कौतुकमङ्गलम् ।। २८८ ॥ भरतेन द्रोणघनो विशल्यामथ याचितः । सहोद्वाह्य स्त्रीसहस्रसहितां तामदत्त च ।। २८९ ।। भामण्डलोऽप्ययोध्यायां मुक्त्वा भरतमुत्सुकः । आययौ सपरीवारो विशल्यासंयुतस्ततः ।। २९० । ज्वलद्दीपविमानस्थो भीतैः सूर्योदयभ्रमात् । क्षणं दृष्टथे निजैः सोऽधाद्विशल्यामुपलक्ष्मणम् ॥। २९१ ।। तया च पाणिना स्पृष्टाल्लक्ष्मणात्तत्क्षणादपि । निर्जगाम महाशक्तिर्यष्टिनेव महोरगी ।। २९२ ।। समुत्पतन्ती सा शक्तिः समुत्पत्य हनूमता । प्रसभं जगृहे श्येनविहगेनेव वर्तिका ।। २९३ ।। साऽप्यूचे देवतारूपा न मे दोषोऽस्ति कश्चन । प्रदत्ता धरणेनाऽस्मै प्रज्ञप्तिभगिनी ह्यहम् ॥ २९४ ॥ विशल्याप्राग्भवतपस्तेजः सोढुमनीश्वरी । एषा यास्यामि मां मुञ्च प्रैष्यभावादनागसम् ।। २९५ ।। १ प्रस्तावना रोचकवाक्य वा । २ सह लक्ष्मणेनेत्यध्याहारः "स" "ह" इति पृथक् पदं वा तत्र हेति स्फुटार्थेऽव्ययम् । ३ किङ्करभावात् ।
सप्तमं पर्व
सप्तमः
सर्गः
रामलक्ष्मण
रावणचरितम् |
रावणस्य
शक्तिनाशार्थं विशल्या
गमनम् ।
।। १९८ ।।