________________
त्रिषष्टिशलाका
पुरुषचरिते
सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
||१९७॥
सद्यो गन्धाम्बुभिस्तेन सिक्तोऽहं पृथिवीभुजा । मत्तश्च निरगाच्छक्तिर्दस्युः परगृहादिव ।। २६७ ।। सद्यो रूढप्रहारेण मया विस्मितचेतसा । पृष्ो गन्धाम्बुमाहात्म्यमित्यशंसत्तवाऽनुजः ।। २६८ ।।। सार्थवाहो विन्ध्यनामाऽभ्यागाद्गजपुरादिह । एकस्तन्महिषो मार्गेऽतिभारत्रुटितोऽपतत् ।। २६९ ॥ तन्मूर्ध्नि पादं विन्यस्य सञ्चचार पुरीजनः । उपद्रवेण महता विपन्नः सोऽथ सैरिभः ।। २७८ ।। सोऽकामनिर्जरायोगाच्छ्वेतङ्करपुरेश्वरः । सुरो वायुकुमारोऽभून्नाम्ना पवनपुत्रकः ।। २७१ ॥ ज्ञात्वा चाऽवधिना पूर्व मृत्यु प्रकुपितोऽथ सः ।पुरे जनपदे चाऽस्मिन् व्याधीन्नानाविधान् व्यधात् ।।२७२ ।। देशे गृहे च न व्याधिरभून्मन्मातुलस्य तु । द्रोणमेघनरेन्द्रस्य मन्महीवर्तिनोऽपि हि ।। २७३ ।। अव्याधिकारणं पृथे मया द्रोणघनोऽवदत् । भार्या प्रियङ्करा मेऽभूत्पुराऽतिव्याधिबाधिता ॥२७४ ॥ जाते गर्भे तत्प्रभावाद् व्याधिनाऽमुच्यताऽथ सा । सुषुवे च क्रमात्पुत्री विशल्यामभिधानतः ।। २७५ ।। त्वद्देश इव मद्देशेऽप्युद्भूते व्याध्युपद्रवे । विशल्यास्नानतोयेन सिक्तो लोकोऽभवद्विरुक् ।। २७६ ।। पृथे मया सत्यभूतशरणो मुनिरन्यदा । वदति स्म विशल्यायाः प्राग्जन्मतपसः फलम् ।। २७७ ।। व्रणरोहणं शल्यापहारो व्याधिसङ्क्षयः । नृणां स्नानाम्भसाऽप्यस्या भावी भर्ता च लक्ष्मणः ।। २७८ ।। तया मुनिगिरा सम्यग्ज्ञानादनुभवादपि । विशल्यास्नानपयसः प्रभावो निश्चितो मया ।२७९।। इत्युदित्वा द्रोणमेघो विशल्यास्नपनोदकम् । ममाऽपि ह्यर्पयत्तेनाऽभवद् भूमिर्ममाऽप्यरुक् ॥२८० ॥ तस्याः स्नानाम्भसाऽनेन मया सिक्तस्त्वमप्यहो ! । निःशक्तिशल्यः संरूढव्रणश्च त्वमभूः क्षणात् ।। २८१ ॥ १ चौरः । २ महिषः ।३ रोगरहितः ।
रावणस्य शक्तिनाशार्थ विशल्यागमनम् ।
॥१९७॥