________________
त्रिषष्टिशलाकापुरुषचरिते ।।१९६॥
| सप्तमं पर्व | सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
प्रसीद मत्प्रवेशाय द्विधा भव वसुन्धरे! । प्राणनिर्वाणहेतोस्त्वं भव वा हृदय ! द्विधा ।। २५२ ।। एवं रुदन्ती करुणं सीता काऽपि कृपावती । अवलोक्याऽवलोकिन्या विद्याधर्यब्रवीदिति ॥२५३ ।। भविष्यत्यक्षताङ्गस्ते प्रभाते देवि ! देवरः । समं च रामभद्रेण त्वामेत्याऽऽनन्दयिष्यति ।। २५४ ।। स्वस्थावस्था तद्गिराऽस्थात् काकुत्स्थगृहिणी तदा । सूर्योदयं चिन्तयन्ती चक्रवाकीव जाग्रती ।। २५५ ।। सौमित्रिर्मारितोऽद्येति क्षणं जहर्ष रावणः । क्षणं स्मृत्वा भ्रातृपुत्रमित्रबन्धं रुरोद च ।। २५६ ।। हा वत्स ! कुम्भकर्ण ! त्वं ममाऽऽत्मैवाऽपरः परः । द्वितीयाविव मे बाहू हेन्द्रजिन्मेघवाहनौ ! ।।२५७ ।। हा वत्सा! जम्बुमाल्याद्या ! मम रूपान्तरोपमाः । अप्राप्तपूर्व प्राप्ताः स्थ कथं बन्धं गजा इव ? ||२५८ ॥ स्मारं स्मारं स्वबन्धूनामित्थं बन्धादि नूतनम् । भूयो भूयो दशग्रीवो मुमूर्छ च रुरोद च ।। २५९ ।। इतश्च पद्मसैन्ये प्राक्प्राकारद्वाररक्षकम् । भामण्डलमुपेत्यैवं कोऽपि विद्याधरोऽवदत् ।। २६० ॥ पद्मपादान् दर्शय मे तदाप्तो ननु यद्यसि । अलं लक्ष्मणजीवातुमाख्यास्यामि हितोऽस्मि वः ।। २६१ ॥ विधृत्य पाणिना दोष्णि नीतो भामण्डलेन सः । पद्मस्य पादपद्मान्ते प्रणम्यैवं व्यजिज्ञपत् ॥२६२ ।। सङ्गीतपुरनाथस्य शशिमण्डलभूपतेः । तनयः प्रतिचन्द्रोऽहं सुप्रभाकुक्षिसम्भवः ॥२६३ ।। क्रीडार्थं सकलत्रोऽहं चलितोऽन्येधुरम्बरे । दृष्टः सहस्रविजयनाम्ना विद्याधरेण च ।। २६४ ।। तेन मैथुनिकाद्वैराधोधितोऽहं चिरं तदा । पातितश्चण्डरवया शक्त्या चाऽऽहत्य भूतले ।।२६५ ।। साकेतपुर्या माहेन्द्रोदयोद्याने लुठन् भुवि । दृष्टश्च भरतेनाऽहं त्वद्भात्राऽतिकृपालुना ।। २६६ ॥
| रामरावणसैन्ययोयुद्धम् ।
॥१९६ ॥