________________
त्रिषष्टिशलाकापुषचरिते ।।१९५॥
| सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
प्रातः पश्य परं बन्धो ! निजबान्धववर्मना । नीयमानं स्वबन्धुं तं बन्धुरूपेण वैरिणम् ॥ २३७ ।। प्रातः कृतार्थीकृत्य त्वामनुयास्यामि लक्ष्मणम् । लक्ष्मणं हि विना किं मे सीतया जीवितेन च ? ।। २३८ ।। बिभीषणो बभाषेऽथ किमधैर्यमिदं प्रभो ! ? |शक्त्या हतोऽपि ह्यनया पुमान् जीवति यामिनीम् ।। २३९ ।। मन्त्रतन्त्रादिना घातप्रतीकाराय सर्वथा । प्रयत्यतां प्रभो ! यापन्न विभाति विभावरी ।। २४० ॥ आमेति राघवेणोक्ते सुग्रीवाद्यास्तु विद्यया । सप्तवप्रांश्चतुर्धारान् राघवौ परितो व्यधुः ।। २४१ ॥ प्राच्या द्वारेषु तत्राऽस्थुः सुग्रीवः पावनञ्जयिः । तारः कुन्दो दधिमुखो गवाक्षो गवयः क्रमात् ॥ २४२ ।।|| उदीच्यामङ्गदः कूर्मोऽङ्गो महेन्द्रो विहङ्गमः । सुषेणश्चन्द्ररश्मिश्च द्वारेष्वस्थुः क्रमादमी ।। २४३ ।। प्रतीच्यां नीलसमरशीलदुर्धरमन्मथाः । जयश्च विजयश्चैव सम्भवश्चाऽवतस्थिरे ।। २४४ ।। भामण्डलो विराधश्च गजो भुवनजिन्नलः । मैन्दो बिभीषणश्चाऽस्थुर्दक्षिणस्यां क्रमादमी ।। २४५ ।। मध्ये कृत्वेति काकुत्स्थौ सुग्रीवाद्या महाभुजाः । प्रजागरपरास्तस्थुरात्मारामा इवोद्यताः ।। २४६ ।। सीतायाः कश्चिदाचख्यौ यच्छक्त्या लक्ष्मणो हतः । प्रातर्विपत्स्यते रामभद्रोऽपि भ्रातृसौहृदात् ।। २४७ ।। वज्रनिर्घोषवद् घोरं तच्छ्रुत्वा जनकात्मजा । पपात मूर्छया पृथ्व्यां लतेव पवनाहता ॥२४८ ॥ विद्याधरीभिरम्भोभिः संसिक्ता लब्धचेतना । उत्थाय विललापैवं जानकी करुणस्वरम् ।। २४९ ।। हा वत्स ! लक्ष्मण ! क्वाऽगास्त्यक्त्वैकाकिनमग्रजम् । मुहूर्तमपि हि स्थातुं विना त्वामेष न क्षमः ।।२५० ॥ धिगहं मन्दभाग्याऽस्मि यतो मम कृतेऽधुना । स्वामिदेवरयोर्देवतुल्ययोरीदृगागतम् ।। २५१ ।। १ लक्ष्मणवर्त्मना मृत्युरूपेणेत्यर्थः । २ स्वस्य तव बन्धुं रावणम् । ३ रात्रिः । ४ योगिनः ।
रामरावणसैन्ययोयुद्धम् ।
॥१९५ ॥