________________
त्रिषष्टिशलाकापुरुषचरिते ॥१९४॥
सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
भक्त्वा भङ्क्त्वा रथानेवं पञ्चवारान् दशाननम् । काकुत्स्थो विरथीचक्रे जगदद्वैतपौरुषः ॥ २२२ ।। दशास्योऽचिन्तयच्चैवं भ्रातृस्नेहादयं स्वयम् । मरिष्यत्येव तत्कि मे योधितेनाऽधुनाऽमुना ? ॥२२३ ।। दशग्रीवो विमृष्यैवं ययौ लङ्कापुरी द्रुतम् । अस्तं जगाम च रवी रामशोकादिवाऽऽतुरः ।। २२४ ।। भग्नेऽथ रावणे रामो निवृत्त्येयाय लक्ष्मणम् । तं च दृष्ट्वा निपतितं पपात भुवि मूर्छितः ।। २२५ ।। सुग्रीवादिभिरासिक्तो रामश्चन्दनवारिणा । लब्धसञ्ज्ञो निषद्योपसौमित्रीत्यगदद्रुदन् ॥ २२६ ।। तव किं बाधते वत्स !? ब्रूहि तूष्णीं स्थितोऽसि किम् ? । सञ्जयाऽपि समाख्याहि प्रीणयाऽग्रजमात्मनः ॥२२७ ।। एते त्वन्मुखमीक्षन्ते सुग्रीवाद्यास्तवाऽनुगाः । नाऽनुगृह्णासि किं वाचा दृशा वा प्रियदर्शन ! ? ।। २२८ ।। जीवनणाद्रावणोऽगादिति लज्जावशाद् ध्रुवम् ।न भाषसे तद्भाषस्व पूरयिष्ये तवेप्सितम् ।। २२९ ।। रे रे रावण दुष्टात्मस्तिष्ठ तिष्ठ क्व यास्यसि ? । एष प्रस्थापयामि त्वां नचिराय महापथे ।। २३० ॥ इत्युक्त्वा धनुरास्फाल्योदस्थाद्यावद्रघूद्वहः । तावत् कपीश्वरेणैवमूचे विनयपूर्वकम् ।। २३१ ।। स्वामिन्निशेयमगमल्लङ्कां च स निशाचरः । शक्तिप्रहारविधुरः स्वामी नश्चैष वर्तते ।। २३२ ।। धैर्यमाधेहि जानीहि हतमेव दशाननम् । प्रतिजागरणोपायं सौमित्रेरेव चिन्तय ।। २३३ ।। भूयो रामो जगादैवं हृता भार्या हतोऽनुजः । तिष्ठत्यद्याऽपि रामोऽयं शतधा न विदीर्यते ॥ २३४ ॥ सखे सुग्रीव ! हनुमन् ! भामण्डल ! नलाऽङ्गद । विराधाद्याश्च सर्वेऽपि यात स्वौकसि सम्प्रति ॥२३५ ।। सीतापहारात् सौमित्रिवधादप्यधिकं शुचे । सखे ! बिभीषणाऽभूस्त्वं यत्कृतार्थीकृतोऽसि न ॥२३६ ।। १ जगत्यद्वितीयपराक्रमः । २ सौमित्रेः समीपमुपसौमित्रि ।
रामरावणसैन्ययो
।। १९४ ॥