________________
त्रिषष्टि
शलाकापुरुषचरिते 11983 11
दृष्ट्वा दशमुखस्तत्तु क्रोधशोकसमाकुलः । बिभीषणाय चिक्षेप शूलं मूलं जयश्रियः ॥ २०७ ॥ तच्छूलमन्तरालेऽपि कदलीकाण्डलीलया । चकार कणशो रामावरजः पत्रिभिः शितैः ।। २०८ ।। धरणेन्द्रप्रदतां ताममोघविजयाह्वयाम् । विजयार्थी दशग्रीवो महाशक्ति समुद्दधे ॥ २०९ ॥ धगद्धगिति ज्वलन्तीं तडत्तडिति नादिनीम् । संहाराब्दतडिल्लेखामिव खेऽभ्रमयत्स ताम् ।। २१० ।। अपसखुर्दिवि सुरा दृशं सैन्या न्यमीलयन् । तां विलोक्य न केऽप्यस्थुः सुस्थितं सुस्थिता अपि ॥ २११ ॥ रामः सौमित्रिमित्यूचेऽस्माकमेष बिभीषणः । आगन्तुर्हन्यते हन्त धिग् न आश्रितघातिनः ।। २१२ ।। इति रामवचः श्रुत्वा सौमित्रिर्मित्रवत्सलः । बिभीषणाग्रे गत्वाऽस्थादाक्षिपन् दशकन्धरम् ॥ २१३ ॥ पुरःस्थं गरुडस्थं तं प्रेक्ष्योवाच दशाननः । न तुभ्यं शक्तिरुत्क्षिप्ता मा मृथाः परमृत्युना ।। २१४ ॥ म्रियस्व यदि वा मार्यस्त्वमेवाऽसि यतो मम । वराकस्त्वत्पदे ह्येष ममाऽग्रेऽस्थाद् बिभीषणः ।। २१५ ।। इत्युक्त्वा भ्रमयित्वा तां शक्ति रामानुजन्मने । मुमोच पतेदुत्पाताशनिकल्पां दशाननः ।। २१६ ।। तामापतन्तीं सौमित्रिः सुग्रीवो हनूमान्नलः । भामण्डलो विराधोऽन्येऽप्यस्त्रैः स्वैः स्वैरताडयन् ॥ २१७ ॥ साऽवज्ञाय तदस्त्रौघं व्यालद्विप इवाङ्कुशम् । उर्वानलः इवाऽम्भोधौ लक्ष्मणोरः स्थलेऽपतत् ॥ २१८ ॥ तया भिन्नो महीपृष्ठे निपपात च लक्ष्मणः । उत्पपात च तत्सैन्ये विष्वग्धा हा रवो महान् ॥ २१९ ॥ क्रुद्धोऽथ ज्येष्ठकाकुत्स्थो जिघत्सुरिव रावणम् । आयोधयितुमारेभे पञ्चाननरथस्थितः ॥ २२० ॥ क्षणाच्चकार विरथं पञ्चाननरथो द्विषम् । दशाननोऽपि वेगेनाऽध्यारुरोह रथान्तरम् ।। २२१ ।। १ पतत् यत् उत्पातवज्रं तत्सदृशीम् । २ वडवाग्निरिव । ३ हन्तुमिच्छुः ।
सप्तमं पर्व
सप्तमः
सर्गः
रामलक्ष्मण
रावण
चरितम् ।
रामरावण
सैन्ययो
युद्धम् ।
।। १९३ ।।