________________
-
त्रिषष्टिशलाकापुरुषचरिते ॥१९२॥
सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावण
चरितम् ।
%ARASHARASHRSHASHASASSHAS
भ्रातृहत्याभयादुक्तोऽस्येवं नाऽन्येन हेतुना । इत्युक्त्वास्फालयामास धनुः सोऽपि बिभीषणः ॥ १९२ ।। ततः प्रववृताते तो भ्रातरौ योद्धमुद्यतौ । चित्राण्यस्त्राणि कर्षन्तौ वर्षन्तौ च निरन्तरम् ।। १९३ ॥ अथेन्द्रजित्कुम्भकर्णी राक्षसा अपरेऽपि हि । स्वामिभक्त्याऽभ्यधावन्त कृतान्तस्येव किङ्कराः ।। १९४ ॥ रामोऽरौत्सीत् कुम्भकर्ण लक्ष्मणो रावणिं पुनः । नीलस्तु सिंहजघनं दुर्मर्षश्च घटोदरम् ।। १९५ ।। स्वयम्भूर्दुर्मतिं शम्भु नलवीरोऽङ्गदो मयम् । स्कन्दः पुनश्चन्द्रणखं विघ्नं चन्द्रोदरात्मजः ।। १९६ ।। केतुं भामण्डलनृपः श्रीदत्तो जम्बुमालिनम् । कुम्भकर्णसुतं कुम्भं पवनञ्जयनन्दनः ।। १९७ ।। किष्किन्धेशः सुमालाख्यं कुन्दो धूम्राक्षराक्षसम् । वालिसूश्चन्द्ररश्मिश्च भटं सारणराक्षसम् ।। १९८ ।। राक्षसानेवमन्योऽन्यमरौत्सुः कपयोऽपरे । अयुध्यन्त च तैः सार्धं नक़र्नका इवाऽर्णवे ।। १९९ ।। एवं युद्धे वर्तमाने भीषणेभ्योऽपि भीषणे । लक्ष्मणायाऽमुचक्रोधादस्त्रं तामसमिन्द्रजित् ।। २०० ।। तदस्त्रं तपनास्त्रेण सौमित्रिः शत्रुतापनः । सद्यो विद्रावयामासाऽग्निना मैदनपिण्डवत् ।। २०१ ॥ सौमित्रिर्नागपाशास्त्रं मुमोचेन्द्रजिते क्रुधा । तन्तुनाऽम्भसि हस्तीव स तेन द्रागबध्यत ।। २०२ ॥ आक्रम्यमाणसर्वाङ्गो नागास्त्रेण दशास्यसूः । निपपाताऽशनिरिव दारयन् सागराम्बराम् ।।२०३ ॥ चिक्षेप स्वरथाङ्के तं विराधो लक्ष्मणाज्ञया । कारापाल इवाऽनैषीन्निजे च शिबिरे द्रुतम् ।। २०४ ॥ नागपाशैः कुम्भकर्ण त्वबध्नालक्ष्मणाग्रजः । भामण्डलस्तं शिबिरेऽनैषीद्रामाज्ञया ततः ॥२०५ ॥ अन्येऽपि प्रतियोद्धारो बद्धा रामस्य सैनिकैः । मेघवाहनमुख्यास्ते निन्यिरे शिबिरे निजे ॥ २०६ ॥ १ मदनो भाषायां “मीण" इति ख्यातः । २ स्वरथमध्ये । ३ कारागृहरक्षकः ।
| रामरावणसैन्ययोयुद्धम् ।
॥१९२ ॥