________________
त्रिषष्टिशलाकापुरुषचरिते ॥१९१॥
सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
भग्नप्रायां च प्रेक्ष्य सुग्रीवाद्या महौजसः । रक्षोऽनीकेषु विविशुर्योगिनोऽन्यवपुःष्विव ।। १७७ ।। विदुद्रुवू राक्षसास्तेऽप्याक्रान्तास्तैः कपीश्वरैः । नागा इव गरुत्मद्भिरद्भिरामघटा इव ।। १७८ ।। रक्षोभङ्गेन सङ्घद्धो दधावे रावणः स्वयम् । महारथप्रचारेण दारयन्निव मेदिनीम् ।। १७९ ।। तस्य प्रसरतो दाववढेरिव तरस्विनः । मुहूर्तमपि नाऽग्रेऽस्थात् कपिवीरेषु कश्चन ।। १८० ।। तद्युद्धे चलितं रामं निषिध्य प्रश्रयादथ । बिभीषणः क्षणादेत्य रुरोध दशकन्धरम् ।। १८१ ।। तं रावणोऽवदद्रे रे! कं श्रितोऽसि बिभीषण! । क्रूद्धस्य मम येनाऽऽजौ क्षिप्तः कवलवन्मुखे ।। १८२ ।। व्याधेनेव किरौ श्वानं मयि त्वां रे! प्रहिण्वता । रामेण मन्त्रितं साधु साध्विदं ह्यात्मरक्षणम् ।। १८३ ॥ अद्याऽपि मम वात्सल्यं त्वयि वत्साऽस्ति गच्छ तत् । एतौ ह्यद्य हनिष्यामि ससैन्यौ रामलक्ष्मणौ ॥ १८४ ॥ अमीषां वध्यमानानां मा सङ्ख्यापूरणः स्म भूः । एहि स्वस्थामेव त्वं पृष्ठे हस्तोऽयमद्य ते ।। १८५ ।। बिभीषणोऽप्युवाचैवं रामोऽन्तक इव स्वयम् । अचालीत्त्वां प्रति क्रुद्धो निषिद्धश्च मया बलात् ।। १८६ ।। त्वां बोधयितुकामोऽहं युद्धव्याजादिहाऽऽगतः । अद्याऽपि मुच्यतां सीता प्रसीद कुरु मद्वचः ।। १८७ ॥ हन्त ! मृत्युभयान्नाऽहं राज्यलोभेन नाऽपि वा । गतोऽस्मि रामं निर्वादभयात् किं तु दशानन ! ॥१८८ ॥ सीतार्पणेन निर्वादं प्रणाशय यथा ह्यहम् । पुनरेव श्रयामि त्वां विहाय रघुपुङ्गवम् ॥ १८९ ॥ क्रुद्धोऽथ रावणः प्रोचे किमद्याऽपि बिभीषिकाम् । रे बिभीषण ! दुर्बुद्धे ! प्रदर्शयसि कातर! ।। १९० ।। भ्रातृहत्याभयादुक्तोऽस्येवं नाऽन्येन हेतुना । इत्युक्त्वास्फालयामास कार्मुकं दशकन्धरः ।। १९१ ।।। १ जलैः । २ अपक्वघटा इव ।३ अपवादभयात् । ४ भीतिम् ।
रामरावणसैन्ययोयुद्धम् ।
॥ १९१ ।।
॥