________________
सप्तम पर्व
त्रिषष्टिशलाकापुरुषचरिते ।।१९०॥
सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
बिभीषणो मोचयितुं भामण्डलकपीश्वरौ । रावणिभ्यां समं योद्धुमधावत रथस्थितः ॥ १६२ ।। दध्यतुश्चेन्द्रजिन्मेघवाहनावेष नः पितुः । अनुजः स्वयमभ्येति कर्तुमस्माभिराहवम् ।। १६३ ।। अनेन तातकल्पेन योद्धव्यं कथमद्य हा !। इतोऽपसरणं युक्तं न हीः पूज्याद्धि बिभ्यताम् ।। १६४ ।।। पाशबद्धाविमौ चाऽरी निश्चितं हि मरिष्यतः । इहैव हि तदासात तातो नाऽन्वेति नौ यथा ।। १६५ ॥ विचिन्त्यैवं नेशतुस्तौ धीमन्तौ रावणी रणात् । पश्यन् बिभीषणश्चाऽस्थाद्भामण्डलकपीश्वरौ ।। १६६ ॥ चिन्ताम्लानाननौ तत्र तस्थतू रामलक्ष्मणौ । हिमानीच्छन्नवपुषौ सूर्याचन्द्रमसाविव ।। १६७ ।। रामभद्रस्ततः पूर्वप्रतिन्नवरं सुरम् । महालोचनमस्मार्षीत् सुपर्णामरपुङ्गवम् ।। १६८ ॥ ज्ञात्वा चाऽवधिनाऽभ्येत्य ददौ पद्माय सोऽमरः । विद्यां सिंहनिनादाख्यां मुशलं स्यन्दनं हलम् ।। १६९ ।। लक्ष्मणाय ददौ विद्यां गारुडी स्यन्दनं तथा । गदां च विद्युद्वदनां समरे रिपुनाशिनीम् ।। १७० ।। वरुणाऽऽग्नेयवायव्यप्रमुखाण्यपराण्यपि । दिव्यान्यस्त्राणि छत्रे च स ददावुभयोरपि ।। १७१ ॥ सौमित्रेर्वाहनीभूतं गरुडं प्रेक्ष्य तत्क्षणम् । सुग्रीवभामण्डलयोः प्रणेशुः पाशपन्नगाः ।। १७२ ।। जज्ञे जयजयारावो रामसैन्ये समन्ततः । रक्षोबलमिवाऽस्तं च ययौ देवोऽब्जिनीपतिः ।।१७३ ॥ प्रातर्भूयोऽपि सैन्यानि रघूद्वहदशास्ययोः । सर्वाभिसारसाराणि रणाङ्गणमुपासरन् ।। १७४ ।। तेषां कृतान्तदन्ताभस्फुरदस्त्रभयङ्करः । अकाण्डारब्धसंवर्त पावर्तत महारणः ।। १७५ ।। क्रुद्धैरक्षोभि रक्षोभिर्वानराणां वरूथिनी । मध्याह्नतापसन्तप्तै. सरसी सूकरैरिव ॥ १७६ ॥ १ महद् हिमं हिमानी, तया छन्नं वपुर्ययोस्तौ । २ रामाय । ३ क्षुब्धम् ।
| रामरावणसैन्ययोयुद्धम् ।
॥१९० ॥