________________
सप्तमं पर्व सप्तमः
त्रिषष्टिशलाकापुरुषचरिते ||१८९॥
सर्गः
रामलक्ष्मणरावणचरितम् ।
दिग्गजा इव चत्वारश्चत्वारः सागरा इव । आस्फालन्तः शुशुभिरे ते त्रिलोकीभयङ्कराः ।। १४८ ।। गतागतैस्तद्रथानामकम्पत वसुन्धरा । चकम्पिरे सानुमन्तश्चक्षोभ च महोदधिः ।। १४९ ॥ बुबुधे नाऽन्तरं तेषां बाणाकर्षणमोक्षयोः । अत्यन्तलघुहस्तानामविहस्तत्वशालिनाम् ।। १५० ।। आयसैर्दैवतैरस्त्रैरयुध्यन्त चिराय ते । परं न कोऽपि केनाऽपि तेषां मध्यादजीयत ।। १५१ ।। अथो मुमुचतुः क्रुद्धाविन्द्रजिन्मेघवाहनौ । सुग्रीवभामण्डलयोर्नागपाशास्त्रमुद्धतम् ॥ १५२ ।। नागपाशैस्तथा बद्धौ भामण्डलकपीश्वरौ । अनीश्वरौ निःश्वसितुमप्यभूतां यथा हि तौ ॥१५३ ॥ इतश्च लब्धसज्ञेन कुम्भकर्णेन रोषतः । गदया ताडितः पृथ्व्यां मारुतिर्मूर्छितोऽपतत् ।। १५४ ।। दोष्णा तक्षककल्पेन तं करीव करेण सः । समुद्दधे वलयितेनाऽन्तःकक्षं न्यधत्त च ।। १५५ ।। ऊचे बिभीषणो रामं स्वामिन्नेतौ हि ते बले । बलीयसौ सारभूतावानने नयने इव ॥१५६ ।। बद्धौ वैदेहिसुग्रीवौ रावणिभ्यां महोरगैः । यावल्लङ्कां न नीयेते तावत्तौ मोचयाम्यहम् ।। १५७ ॥ हनुमान् कुम्भकर्णेन बद्धो दोष्णा महीयसा । लङ्कामप्राप्त एवाऽयं मोचनीयो रघूद्वह ! ।। १५८ ।। स्वामिन् ! विना हि सुग्रीवभामण्डलहनूमतः । अवीरमिव नः सैन्यमनुजानीहि यामि तत् ॥१५९ ।। एवं तत्र ब्रुवत्येव वेगाद्गत्वाङ्गदो भटः । आक्षिप्य कुम्भकर्णेन युयुधे युद्धकोविदः ॥ १६०॥ क्रोधान्ध्यात् कुम्भकर्णेन प्रोत्क्षिप्तभुजपाशतः । ययौ मारुतिरुत्पत्य विहङ्ग इव पञ्जरात् ।। १६१ ।। १ अतिशीघ्रहस्तवतामनाकुलितत्वेन च शालिनां तेषां चतुर्णा बाणानां कर्षणे मोक्षणे च कियत्कालान्तरमस्तीति केनाऽपि न बुबुधे इति भावः । २ कक्षायामित्यन्तःकक्षम् । ३ ऊर्चीकृतो मुज एव पाशस्तस्मात् ।
रामरावणसैन्ययोयुद्धम् ।
॥ १८९ ।।