________________
त्रिषष्टिशलाकापुरुषचरित ||१८८॥
सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
रामरावण
प्लवङ्गमैरस्खलितः स्थलैरिव नदीरयः । सुग्रीवरथमाहत्याऽचूर्णयन्मुद्रेण सः ।। १३३ ॥ खे समुत्पत्य सुग्रीवः शिलामेकां महीयसीम् । मुमोच कुम्भकर्णाय वज्री वज्रमिवाऽद्रये ॥१३४ ।। कुम्भकर्णो मुद्गरेण तां शिलां कणशोऽकरोत् । उत्पातिकी रजोवृष्टिं कपीनां दर्शयन्निव ।। १३५ ।। तडत्तडिति कुर्वाणं तडिद्दण्डास्त्रमुत्कटम् । रावणावरजायाऽथ वालिनोऽवरजोऽमुचत् ।।१३६ ॥ तडिद्दण्डाय चण्डाय तस्मै शस्त्राण्यनेकशः । कुम्भकर्णः प्रचिक्षेप मोघीभूतानि तानि तु ॥ १३७॥ कुम्भकर्णः पपातोा तडिद्दण्डेन ताडितः । जगद्भयङ्कराकारः कल्पान्त इव पर्वतः ।। १३८ ।। मूर्छिते भ्रातरि क्रुद्धः स्वयमेव दशाननः । साक्षादिवाऽन्तकोऽचालीद् भृकुटीभीषणाननः ।। १३९ ॥ नत्वेन्द्रजित्तमित्यूचे स्वामिंस्तव पुरो रणे । न यमो वरुणो नाऽपि न कुबेरो न वा हरिः ॥ १४० ॥ तिष्ठन्ति किं नु प्लवगा एवैते देव ! तिष्ठ तत् । गत्वैष तान् हनिष्यामि रुष्टो मशकमुष्टिवत् ॥ १४१ ।। निषिध्यैवं दशग्रीवं मानोद्ग्रीवः स शक्रजित् । आघ्नानः प्रविवेशाऽन्तःकपिसैन्यं महाभुजः ॥ १४२ ॥ कासारः कौसरस्येव भेकरापततः सतः । कपिभिर्मुमुचे तस्य समरोर्वी महौजसः ।। १४३ ।। स त्रस्यतः कपीनूचे रे रे ! तिष्ठत वानराः !। अयुध्यमानान्नो हन्मि रावणस्याऽस्मि नन्दनः ।। १४४ ।। क्व मारुतिः ? क्व सुग्रीवस्ताभ्यामप्यथवा कृतम् । क्व नु तौ रामसौमित्री अभ्यमित्रीयमानिनौ ॥१४५ ॥ इति ब्रुवाणं दोर्दादमर्षारुणितेक्षणः । रणायाऽऽह्वत सुग्रीवस्तं दशग्रीवनन्दनम् ।। १४६ ॥ भामण्डलोऽपीन्द्रजितोऽवरजं मेघवाहनम् । आयोधयितुमारेभे शरभं शरभो यथा ।। १४७ ।। १ इन्द्रः । २ मानेनोर्ध्वग्रीवः । ३ महिषस्य । ४ वीरमानिनौ ।
सैन्ययोयुद्धम् ।
॥ १८८॥