________________
त्रिषष्टिशलाकापुरुषचरिते ॥१८७॥
सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
क्षणादभाङ्क्षीद्रक्षासि तमांसीव दिवाकरः । महौजसां शिरोरत्नं पवनञ्जयनन्दनः ।। ११९ ॥ रक्षोभङ्गेन सङ्क्रुद्धः कुम्भकर्णोऽथ शूलभृत् । ईशान इव भूमिष्ठः स्वयं योद्धुमधावत ।। १२० ।। कानप्यध्रिप्रहारेण मुष्टिघातेन कानपि । कांश्चित्कूर्परघातेन तलघातेन कांश्चन ।। १२१ ।। काश्चिन्मुद्गरघातेन शूलघातेन कांश्चन । कानप्यन्योऽन्यघातेन कुम्भकर्णोऽवधीत् कपीन् ।। १२२ ।।
॥युग्मम् ॥ कल्पान्तार्णवकल्पं तमापतन्तं तरस्विनम् । रावणानुजमालोक्य सुग्रीवः समधावत ।। १२३ ।। भामण्डलो दधिमुखो महेन्द्रः कुमुदोऽङ्गदः । अपरेऽप्यन्वधावन्त प्रदीपन इवोद्यतः ।। १२४ ।। दशाननानुजं पञ्चाननं व्याधा इवाऽरुधन् । वर्षन्तोऽस्त्राणि चित्राणि युगपद्वानरोत्तमाः ।। १२५ ॥ प्रस्वापनास्त्रं तेषूच्चैः कालरात्रिमिवाऽपराम् । रात्रिञ्चरवरोऽमुञ्चदमोघं मुनिवाक्यवत् ।। १२६ ।। निद्रायमाणं स्वं सैन्यं दिवा कुमुदखण्डवत् । दृष्ट्वा सस्मार सुग्रीवो महाविद्यां प्रबोधिनीम् ।। १२७ ।। अरे! क्व कुम्भकर्णोऽस्तीत्युच्चैस्तुमुलकारिणः । उत्तस्थुर्वानरभटाः खगा इव निशात्यये ।। १२८ ।। उपाद्रवन् कुम्भकर्णमाकर्णाकृष्टकार्मुकाः । सुग्रीवाधिष्ठिताः सुष्ठुयोधिनः कपिकुञ्जराः ।।१२९ ॥ सुग्रीवो दलयामास कुम्भकर्णस्य सारथिम् । रथं रथ्यांश्च गदयाऽगदारो गदानिव ॥ १३०॥ भूमिष्ठः कुम्भकर्णेऽथ हस्तेनोदेस्तमुद्गरः । एकशृङ्गो गिरिरिव सुग्रीवायाऽभ्यधावत ।।१३१ ॥ युद्धार्थ धावतस्तस्याऽङ्गवातेन गरीयसा । भूयांसः कपयः पेतुः करिस्पर्शेन वृक्षवत् ।। १३२ ।। १ हनुमद्विशेषणम् । २ बलिनम् । ३ सिंहम् । ४ वैद्यो रोगानिव । ५ उदस्तः-ऊर्वीकृतो मुद्गरो येन सः ।
रामरावणसैन्ययोयुद्धम् ।
॥ १८७ ।।