________________
त्रिषष्टिशलाकापुरुषचरिते ॥१८६॥
सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
मारुतिस्तद्वचः श्रुत्वा हक्कामिव मृगाधिपः । बूत्कुर्वन्नुर्वहङ्कारश्छादयामास तं शरैः ॥१०६ ।। तद्बाणवृष्टिं निधूय शरैर्वजोदरोऽपि तम् । तिरयामास मार्तण्डं प्रावृट्काल इवाऽम्बुदैः ॥ १०७ ।। अहो ! वज्रोदरो वीरो योऽलमस्मै हनूमते । अहो ! वीरः पावनिर्योऽलं वज्रोदररक्षसे ।। १०८ ॥ एवं गिरो रणक्रीडासदस्यानां दिवौकसाम् । असहिष्णुर्द्विषज्जिष्णुर्हनुमान् मानपर्वतः ।। १०९ ॥ वर्षन् युगपदस्त्राणि चित्राण्युत्पातमेघवत् । वज्रोदरं तमवधीत्पश्यतामपि रक्षसाम् ।। ११० ॥
॥त्रिभिर्विशेषकम् ।। वजोदरवधक्रुद्धो रावणिर्जम्बुमाल्यथ । तर्जन्मारुतिमाह्वास्त प्रतिकार इव द्विपम् ।। १११ ॥ उभावपि महामल्लावन्योऽन्यवधकाक्षिणौ । युयुधाते चिरं बाणैः पन्नगैर्वार्तिकाविव ॥११२ ।। इषुभ्यः प्रतियच्छन्तौ द्विगुणद्विगुणानिषून् । परस्परं प्रापतुस्तावधमोत्तमर्णताम् ।। ११३ ।। क्रुद्धोऽथ कृत्वा हनुमानरथ्यरथसारिथम् । तं द्विषं ताडयामास मुद्गरेण गरीयसा ॥११४ ॥ मूर्छितो जम्बुमाल्युत् निपपातोत्पपात च ।रुषा महोदरो रक्षोवीरो वर्षञ्छिलीमुखान् ।। ११५ ॥ अन्येऽपि राक्षसभटा हनूमन्तं जिघांसवः । जात्यश्वान इव क्रोडं वेष्टयामासुरुच्चकैः ।। ११६ ॥ दोष्णोः केऽपि मुखे केऽपि केऽप्यङ्ग्योहदि केऽपि च । कुक्षौ केऽपि शरैस्तीक्ष्णैर्जजिरेते हनूमता ।।११७ ॥ अन्तर्वणं दव इव मध्येऽम्भोधीव वाडवः । मध्येरक्षोबलं वीरश्वकासामास मारुतिः ॥ ११८॥ १ महागवान् । २ हस्तिपकः ।३ गारुडिनौ । ४ जम्बुमाली पपात महोदरश्चोत्पपाताभिजगामेति सम्बन्धः । ५ वराहम् ।
रामरावणसैन्ययोयुद्धम् ।
।।१८६ ॥