________________
त्रिषष्टि
शलाका
पुरुषचरिते
1192411
तेऽपि राघवसेनान्यः सैन्यैः सह महौजसः । वीक्ष्यमाणा दिव्यमरैः समरायोपतस्थिरे ।। ९२ ।। सनदीकमिव क्वाऽपि रक्तवारिभिरुद्धतैः । उत्पर्वतमिव क्वाऽपि पतितैः कपिकुञ्जरैः ।। ९३ ।। क्वचिच्चोन्मकरमिव मेकरास्यै रथच्युतैः । उद्दन्तमिव च क्वाऽपि सामिभग्नैर्महारथैः ।। ९४ । उत्ताण्डवैः कबन्धैश्च नृत्तस्थानमिव क्वचित् । अजायत क्षणेनाऽपि समराजिरभूतलम् ।। ९५ ।। ॥ त्रिभिर्विशेषकम् ॥
अथ रावणहुङ्कारप्रेरितै रजनीचरैः । सर्वैः सर्वाभिसारेण कपिसैन्या बभञ्जिरे ।। ९६ ।। क्रुद्धः स्वसैन्यभङ्गेन सुग्रीवोऽधिज्यकार्मुकः । स्वयं चचाल चलयन्नचलां प्रबलैर्बलैः ।। ९७ ।। राजन्निहैव तिष्ठ त्वं ममैवेक्षस्व विक्रमम् । एवं निषिध्य सुग्रीवं हनुमानचलद्युधि ।। ९८ ।। हनुमान् राक्षसानीकमनेकानीकदुर्मदम् । दुर्ग्राहमप्यगाहिष्ट महाब्धिमिव मन्दरः ।। ९९ ।। अथ पर्जन्यवद्गर्जन्नूर्जितं युधि दुर्जयः । अढौकत धनुस्तूणमाली माली हनूमते ॥ १०० ॥ हनुमन्मालिनौ वीरौ धनुष्टङ्कारकारिणौ । पुच्छास्फोटकरौ सिंहाविवोद्दामौ विरेजतुः ।। १०१ ।। अस्त्रैर्मालिहनुमन्तौ प्रजह्राते परस्परम् । चिच्छेदाते मिथोऽस्त्राणि मिथोऽतर्जयतां च तौ ।। १०२ ।। चिरं च युद्ध्वा हनुमान्मालिनं वीर्यशालिनम् । चक्रे निरस्त्रं निस्तोयं ग्रीष्मार्क इव पल्वलम् ॥ १०३ ॥ गच्छ गच्छ जरद्रक्षः ! किं हतेन त्वया ननु ? । इति ब्रुवाणं श्रीशैलमेत्य वज्रोदरोऽवदत् ॥ १०४ ॥ अरे रे ! म्रियसे पाप ! वदन्नेवं हि कैद्वद ! । एह्येहि युध्यस्व मया न भवस्येष मा स्म गाः ।। १०५ ॥ १ मकरमुखैः काष्ठमयमकराकृतयो रथे निक्षिप्यन्ते । २ अर्धभग्नैः । ३ कुत्सितं वदतीति कद्वदस्तत्सम्बुद्धौ ।
सप्तमं पर्व सप्तमः
सर्गः
रामलक्ष्मण
रावणचरितम् ।
रामरावणसैन्ययो
युद्धम् ।
।। १८५ ।।