________________
त्रिषष्टिशलाकापुरुषचरिते ॥१८४॥
सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
चन्द्राऽर्कोद्दामबीभत्साः कामाक्षो मकरो ज्वरः । गम्भीरः सिंहरथाश्वरथा अन्येऽप्युपासरन् ।। ८२ ।।
युग्मम् ॥ मदनाडरसन्तापप्रथिताक्रोशनन्दनाः । दुरितानघपुष्पास्त्रविघ्नप्रीतिकरादयः ।। ८३ ।।। कपयो राक्षसैः सार्धमयुध्यन्त पृथक् पृथक् । उत्पतन्तः पतन्तश्च कुक्कुटैरिव कुक्कुटाः ।। ८४ ॥
॥युग्मम् ।। मारीचरक्षः सन्तापं नन्दनो ज्वरराक्षसम् । उद्दामराक्षसो विघ्नं शुकं दुरितवानरः ।। ८५ ।। राक्षसः सिंहजघनः प्रथितं नाम वानरम् । योधयित्वा दृढं जघ्नुर्ययावस्तं च भास्करः ।। ८६ ।।
॥युग्मम् ॥ द्वयोरपि हि सैन्यानि रामरावणयोस्ततः । निवृत्त्याऽस्थुः शोधयन्तः स्वान हतानहतानपि ॥८७॥ विभातायां विभावर्या प्रत्यर्क दानवा इव । प्रति रामबलं रक्षोयोधा योद्धं डुढौकिरे ।। ८८ ॥ मध्येसैन्यं दशास्यो भूमध्ये मेरुरिवाऽचलः ।गजरथ्यरथारूढश्चचाल रणकर्मणे ॥ ८९ ।। बिभ्राणो विविधान्यस्त्राण्यन्तकादपि भीषणः । तत्कालारुणया शत्रून् दृशाऽपि हि दहन्निव ॥९० ॥ पश्यन् प्रत्येकमप्यात्मसेनान्यं शेतमन्युवत् । मन्यमानस्तृणायाऽरीन् रावणोऽगाद्रणावनिम् ॥ ९१ ॥
॥युग्मम् ॥ १ रामपक्षीयाणां नामानि । २ प्रभाते । ३ प्रातः सूर्योदयात्प्राक् सूर्य प्रति दानवा असुरा यो मायान्तीति लौकिकशास्त्रे प्रसिद्धम् । ४ गजा रथ्या-रथवोबरो यस्यैतादृशं रथमारूढः । ५ इन्द्रवत् ।
रामरावण
सैन्ययो
युद्धम् ।
।। १८४ ।।