________________
त्रिषष्टिशलाका
पुरुषचरिते
सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
।।१८३॥
कुठारघातैराच्छिन्ना भटानामपरैर्भटैः । पञ्चशाखाः पतन्ति स्म शाखाः शाखावतामिव ।। ६९ ॥ वीराः शिरांसि वीराणां छित्वा भूमौ प्रचिक्षिपुः । बुभुक्षिताय कीनाशायोचितान् कवलानिव । ७०।। रक्षसां वानराणां च युद्धे तस्मिन् महौजसाम् । दायादानां धनमिव जयः साध्योऽभवच्चिरम् ।। ७१ ।। चिरं प्रवर्तमाने च समरे तत्र वानरैः । अभञ्जि राक्षसबलं काननवन्महाबलैः ।। ७२ ।। भग्ने रक्षोबले हस्तप्रहस्तौ योद्धमुद्यतौ । वानरः सह लङ्केशजयप्रतिभुवौ सदा ॥७३ ॥ द्वयोरपि तयोर्युद्धाध्वरदीक्षितयोरथ । सम्मुखीनावुदस्थातां नलनीलौ महाकपी ।।७४ ।। हस्तो नलश्चाऽऽदितोऽपि सम्मुखीनौ महाभुजौ । रथारूढावमिलतां वक्रावक्रग्रहाविव ।। ७५ ।। आस्फालयामासतुस्तावधिज्यीकृत्य धन्वनी । ज्यानादेन मिथो युद्धनिमन्त्रणपराविव ।।७६ ॥ तथा ववृषतुर्बाणांस्तौ द्वावपि परस्परम् । शरशूलैर्यथाऽभूतां रथौ श्वोविन्निभौ तयोः ॥७७ ॥ क्षणं नले क्षणं हस्तेऽभूतां जयपराजयौ । तद्बलान्तरमज्ञायि न तत्र निपुणैरपि ।। ७८ ।। सभ्यीभूतस्ववीराणामग्रे हीणो नलो बली । अविहस्तो हस्तशिरः क्षुरप्रेणाऽच्छिदक्रुधा ।। ७९ ।। सद्यः प्रहस्तं नीलोऽपि हस्तं नल इवाऽवधीत् । दिवोऽभूत् पुष्पवृष्टिश्चोपरिष्टान्नलनीलयोः ॥ ८०॥ हस्तप्रहस्तनिधनाद् दशाननबले क्रुधा । मारीचः सिंहजघनः स्वयम्भूः सारणः शुकः ।।८१ ॥ १ हस्तौ पादौ मस्तकं चेति पञ्चशाखाः ।२ यमाय ।३ प्रतिभूः-साक्षी । ४ धनुषी । ५ श्वाविच्छल्यकः भाषायां शाहुडी" इति ख्यातम् । ६ अव्याकुलः ।
-RRRRRRASSHRS50988SAGE
रामरावणसैन्ययो
युद्धम्।
।। १८३ ।।