________________
त्रिषष्टिशलाकापुरुषचरिते ॥१८२॥
सप्तमं पर्व | सप्तमः | सर्गः रामलक्ष्मणरावणचरितम् ।
शार्दूलकेतवः केचित्केचिच्छरभकेतवः । चमूरुकेतवः केचित्केचित्करटिकेतवः ।। ५७ ॥ मयूरकेतवः केचित्केचित्पन्नगकेतवः । मार्जारकेतवः केचित्केचित्कुक्कुटकेतवः ।। ५८ ॥ कोदण्डपाणयः केचित्केचिन्निस्त्रिशपाणयः । मुशुण्डीपाणयः केचित्केचिद् मुद्गरपाणयः ।। ५९ ॥ त्रिशूलपाणयः केचित्केचित्परिघपाणयः । कुठारपाणयः केचित्केचिच्च पाशपाणयः ।।६० ॥ विपक्षवीरान् पृच्छन्तो नामग्राहं मुहर्मुहुः । दशास्यवीराश्चतुरं विचेरू रणकर्मणि ॥ ६१ ।।
॥पञ्चभिः कुलकम् । वैताठ्यस्येव सैन्यस्य प्रथिनाऽऽच्छाद्य मेदिनीम् । पञ्चाशद्योजनान्यस्थाद्रावणो रणकर्मणे ।। ६२ ।। स्वनायकान् प्रशंसन्तो निन्दन्तः परनायकान् । परस्परं चाऽऽक्षिपन्तः कथयन्तो मिथोऽभिधाः ।। ६३ ।।|| अस्त्राण्यस्त्रैर्वादयन्तः करास्फोटपुरःसरम् । रामरावणयोः सैन्याः मिमिलुः कांस्यतालवत् ।। ६४ ॥
॥युग्मम् ॥ गच्छ गच्छ तिष्ठ तिष्ठ मा भैषीरुत्सृजाऽऽयुधम् । कुरुष्वाऽऽयुधमित्याजौ भटानां तत्र वागभूत् ।। ६५ ।।। शल्यानि शङ्कवो बाणाश्चक्राणि परिघा गदाः । समुत्पेतुर्द्वयोश्चम्वोर्वनान्तर्विहगा इव ॥६६ ।। खड् मिथो घातभग्नैर्वेगात् कृतैश्च मौलिभिः । उच्छलद्भिरभून्नानाकेतुराद्विव खं तदा ।। ६७ ।। सुभटा मुद्राघातैर्लोठयन्तो द्विपान मुहुः । दण्डकन्दुकिनी क्रीडां तन्वाना इव रेजिरे ।।६८ ॥ १ शरभोऽष्यपदमृगः स केतौ येषां ते तथा । २ चमूरु[गविशेषः । ३ करटी गजः । ४ नाना केतवो राहवश्च यस्मिस्तत् ।
रामबलस्य लायामा
गमनम्,
द्वयोस्सैन्ययोर्युद्धम् ।
॥१८२ ॥