________________
त्रिषष्टिशलाकापुरुषचरिते ।।१८१॥
सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मण रावणचरितम् ।
बिभीषणोऽप्युवाचैवं हित्वा दुर्नयमग्रजम् । त्वामागतोऽस्मि भक्तं मां तत्सुग्रीववदादिश ।। ४३ ।। लङ्काराज्यं तदा तस्मै प्रत्यपद्यत राघवः । न मुधा भवति क्वाऽपि प्रणिपातो महात्मसु ।। ४४ ।। हंसद्वीपे दिनान्यष्टावतिवाह्य रघूद्वहः । कल्पान्तवातवल्लङ्कां प्रत्यचालीच्चमूवृतः ।। ४५ ।। चम्वा रुद्ध्वा पृथुत्वेन पृथ्व्या विशतियोजनीम् । रणाय सज्जो काकुत्स्थोऽवतस्थे स्थेमपर्वतः ।। ४६ ।। रामसेनाकलकलो वेलाध्वनिरिवोदधेः । लङ्कां बधिरयामास स्फुटद्ब्रह्माण्डभूरिव ॥४७ ।। दशकन्धरसेनान्योऽनन्यसाधारणौजसः । सद्यः संवर्मयामासुः प्रहस्ताद्याः उदायुधाः ।। ४८ ॥ केचिन्मतङ्गजोद्वारिपरे वाहवाहनैः । शार्दुलवाखैरन्ये तु खरवायै रथैः परैः ॥ ४९ ।। कुबेरवन्नरैः केचिन्मेषैः केचित्तु वह्निवत् । यमवन्महिषैः केचित्केचिद्रेवन्तवद्धयैः ।। ५० ॥ विमानैर्देववत्केचित्प्रताः समरकर्मणे । उत्पत्य युगपद्वीराः परिवतुर्दशाननम् ।। ५१ ।।
॥त्रिभिर्विशेषकम् ॥ रोषारुणाक्षः सन्नह्य विविधायुधपूरितम् । अध्यास्त स्यन्दनं रत्नश्रवः प्रथमनन्दनः ।। ५२ ॥ भानुकर्णः शूलपाणिर्दण्डपाणिरिवाऽपरः । उपेत्य दशकण्ठस्य समभूत्पारिपार्श्वकः ।। ५३ ॥ कुमाराविन्द्रजिन्मेघवाहनावपराविव । दोर्दण्डौ दशकण्ठस्य पार्श्वयोरेत्य तस्थतुः ॥ ५४ ।। सूनवोऽन्येऽपि दोष्मन्तः सामन्ताः कोटिशोऽपि च । शुकसारणमारीचमयसुन्दादयोऽभ्ययुः ।। ५५ ॥ अक्षौहिणीनां सहस्रैरसङ्ख्यैः सङ्ख्यकर्मठैः । दिशः प्रच्छादयन् पुर्याः प्रचचाल दशाननः ।। ५६ ॥ १ बलपर्वतः । २ उष्ट्रवाहनैः । ३ अश्वैः । ४ शक्ताः । ५ युद्धचतुरैः ।
रामबलस्य लझयामागमनम्।
॥१८१ ॥