________________
त्रिषष्टिशलाकापुरुषचरिते ||१८०॥
सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् ।
बिभीषणोऽप्युवाचैवं शत्रुगृह्यो न खल्वहम् । पुत्ररूपस्तु शत्रुस्त्वमुत्पन्नः कुलनाशकृत् ।। २८ ।। अयमैश्वर्यकामाभ्यामन्धस्तावत् पिता तव ।जन्मान्ध इव रे मुग्ध ! दुग्धास्य ! त्वं तु वेत्सि किम् ? ॥२९ ।।। राजन्ननेन पुत्रेण चरित्रेण निजेन च । पतिष्यस्यचिरादेव ताम्यामि त्वत्कृते मुधा ॥ ३० ॥ रावणोऽप्यधिकं क्रुद्धः खड्गमाकृष्य भीषणम् । बिभीषणवधायोच्चैरुदस्थादेवदूषितः ।। ३१ ॥ बिभीषणोऽपि भ्रकुटीभीषणः स्तम्भमायतम् । उत्पाट्य गजवद्योद्धमुत्तस्थावभिरावणम् ।। ३२ ।। कुम्भकर्णेन्द्रजियां तौ पतित्वा द्रुतमन्तरा । युद्धान्निषिध्य नीतौ स्वं स्थानं शालामिव द्विपौ ।।३३ ।। अरे ! निर्याहि मत्पुर्या आश्रयाशोऽसि वह्निवत् । इत्युक्तो रावणेनाऽगाद्रामाभ्यणे बिभीषणः ।।३४ ।। रक्षोविद्याधराणां चाऽक्षौहिण्यस्त्रिंशदुत्कटाः । हित्वा लङ्काधिपं सद्योऽप्यनुजग्मुर्बिभीषणम् ।। ३५ ॥ आपतन्तं च तं प्रेक्ष्य सुग्रीवाद्याः प्रचुक्षुभुः । यथा तथा हि विश्वासः शाकिन्यामिव न द्विषि ।।३६ ।। आदौ स पुरुष प्रेष्य रामाय स्वमजिज्ञपत् । विश्वासपात्रसुग्रीवमुखं रामोऽप्युदैक्षत ।।३७ ।। सुग्रीवोऽप्यब्रवीदेते यद्यप्याजन्ममायिनः । प्रकृत्या राक्षसाः क्षुद्रास्तथाऽप्यायात्वसाविह ॥३८ ।। ज्ञास्यामः प्रेषणैरेव भावमस्य शुभाशुभम् । दृष्टभावानुरूपं च करिष्याम इह प्रभो !।।३९ ॥ तदभिज्ञोऽभ्यधादेवं विशालो नाम खेचरः । महात्मा धार्मिकश्चैष रक्षःस्वेको बिभीषणः ॥ ४० ॥ सीतामोक्षाय जल्पंश्चाऽनल्परोषेण बन्धुना । निर्वासितः शरण्यं त्वामागान्नैवैतदन्यथा ॥४१ ।। श्रुत्वेति रामो द्वाःस्थेन बिभीषणमवीविशत् । पादयोः क्षिप्तमूर्धानं परिरेभे च सम्भ्रमात् ।। ४२ ।। १क्षीरकण्ठ । २ आश्रयमश्नाति भक्षयतीति तथा ।३ गूढपुरुषैः ।
लशयां युद्ध
सन्नह्यता, | बिभीषस्य रामाश्रये आगमनम् ।
।। १८०॥